Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२२ वैमानिकदेवानां स्थानादिक निरूपणम् ८६५ महावीरेण, अन्यैश्च तीर्थकृद्भिः , 'तेणं विमाणा सव्वरयणामया' तानि खलुउपर्युक्तानि विमानानि, सर्वरत्नमयानि सर्वात्मना कात्य॑न रत्नमयानीत्यर्थः, 'अच्छा' अच्छानि-स्वच्छानि 'सण्हा' श्लक्ष्णानि 'लण्हा' मसृणानि, 'घट्टा' घृष्टानि, शाणया सुवर्णानीव धृष्टानि इत्यर्थः, 'महा' मृष्टानि, 'नीरया' नीरजांस, रजोरहितानि, 'निम्मला' निर्मलानि, आगन्तुकमलरहितत्वात्-अत्य. न्तस्वच्छानीत्यर्थः, 'निप्पंका' निष्पङ्कानि कर्दमरहितानि सर्वथा पांशुवर्जितानि इत्यर्थः, 'निकंकडच्छाया' निष्कङ्कटच्छायानि निष्कवचानि, 'सप्पभा' सप्रभाणि, 'सस्सिरिया' सश्रीकाणि-अत्यन्तशोभाशालीनि, 'सउज्जोया' सोद्योतानि-सोधोतैः प्रकाशैः सहितानि सोद्योतानि, 'पासाईया' प्रसादीयानि -प्रसादाय प्रसत्तये अत्यन्ताहलादाय हितानि परमानन्दजनकानि इत्यर्थः, 'दरिसणिज्जा' दर्शनीयानि-दर्शनयोग्यानीत्यर्थः, 'अभिरूवा' अभिरूपाणि परमसुन्दराणि 'पडिरूवा' प्रतिरूपाणि अत्यन्तकमनीयानि सन्ति , 'एत्थ णं' अत्र खलु-उपयुक्तविमानावासेषु 'वेमाणियाणं देवाणं' वैमानिकानां देवानाम् ‘पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णता' स्थानानि प्रज्ञप्तानि प्ररूपितानि सन्ति, 'तिसु वि लोयस्स असंखेजइभागे' त्रिष्वपि-स्वस्थानोपपातसमु. द्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये इत्यर्थः, लोकस्य असंख्येयभागे, असंख्येयतमे भागे वैमानिकानां वक्तव्यम् स्थानादिकमितिशेषः, 'तत्थ णं वह वे
वे विमान सर्वरत्नमय हैं-पूर्ण रूप से रत्नमय हैं, स्वच्छ हैं, चिकने, कोमल तथा घटारे-मटारे हैं। नीरज हैं तथा निर्मल हैं अर्थात् आगन्तुक मल से रहित होने के कारण अत्यन्त स्वच्छ हैं। निष्पंक अर्थात् कर्दम से रहित हैं, निरावरण छाया वाले हैं, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, आहादकारक, दर्शनीय, परम सुन्दर और अतीव कमनीय है । इन उपयुक्त विमानावासों में पर्याप्त तथा अपयाप्त वैमानिक देवा के स्थान प्ररूपित किए गए हैं। ये स्थान स्वस्थान, उपपात और समुदघात, तीनों अपेक्षाओं से लोक के असंख्यातवें
તે વિમાને સર્વરત્નમય છે-પૂર્ણરૂપથી રત્નમય છે, સ્વચ્છ છે. ચિકણ કમળ તથા ઘાટીલા છે. નીરજ તથા નિર્મળ છે અર્થાત્ આગન્તુકમળથી રહિત હોવાને કારણે અત્યન્ત સ્વચ્છ છે, નિપંક અર્થાત્ કાદવથી રહિત છે. નિરાવરણ છવાવાળા છે, પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય, આહૂલાદ કારક દશનીય, પરમ સુન્દર અને અતીવ કમનીય છે. આ ઊપર કહેલા વિમાનાવાસ માં પર્યાપ્ત તથા અપર્યાપ્ત વૈમાનિક દેવાના સ્થાન પ્રરૂપિત કરાયેલા છે. એ નો સ્વસ્થાન, ઉપપાત અને સમુદુઘાત, ત્રણે અપેક્ષાઓએ લેકના અસંખ્યાતમા प्र० १०९
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧