Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे शोभमानानि तोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृत तोरणप्रतिद्वारदेशभागानि, एयमेव 'आसत्तोसत्तविउलबट्टयग्धारियमल्लदामकलावा' आसक्तोत्सितविपुलवृत्तव्याघारितमाल्यदामकलापानि, आ-अवाङ् अधस्तात् भूमौ सक्तः आसक्तः, भूमौ संलग्नः, ऊर्ध्व सक्तः सम्बद्धः, उल्लोचतले उपरि संसक्त इत्यर्थः, विपुल:-विस्तीर्णः, वृतः-वर्तुलाकारः, व्याघारितः-प्रलम्बितो माल्यदामकलापः प्रसूनसक् समूहो येषु तानि आसक्तोसिक्तविपुलवृत्तव्याधारितमाल्यदामकलापानि, तथा 'पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिया' पञ्चवर्णेन सुरभिणा सुगन्धेन, मुक्तेन-क्षिप्तेन पुष्पपुञ्जस्वरूपेण उपचारेण विन्यासेन कलितानि युक्तानि इव इति पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितानि, तथा 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमघंतगंधुळ्याभिरामा' कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि, तत्र-कालागुरुः प्रसिद्धो गन्धद्रव्यविशेषः प्रवरः श्रेष्ठः, कुन्दुरुष्का-चीडा, तुरुष्के-सिल्हके, तेषां धूपस्य मघमघायमानेन गन्धेन उद्धृतेन इतस्ततश्चतुर्दिक्षु प्रसतेन, अभिरामाणि कमनीयानि, इति कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि, 'सुगंधवरंगंधिया' सुगन्धवरगन्धिकानि-शोभना गन्धाः येषां ते सुगन्धास्ते च ते वरगन्धाश्च-वासाः इति मुगन्धवरगन्धास्तेषां गन्धोऽस्ति एषु इति सुगन्धवरगन्धिकानि, अतएव 'गंधवट्ठिभूया' गन्धिवर्तिभूतानि, सौरभ्यातिशयेन गन्धद्रव्य गुटिका सदृशानि इति भावः, तथा-'अच्छरगणसंघसंविकिन्ना' अप्सरोगणसङ्गसंविकीणोनि अप्सरसो गणानां संवेन-समूहेन, सम्यक्तया विकीर्णानि-व्यातानि इत्यप्सरोगणसङ्घसंविकीर्णानि, 'दिव्यतुडियसहसंपणाइया' दिव्यत्रुटित शब्दसंप्रणादितानि दिव्यानाम्-अपूर्वाणाम् त्रुटितानाम् वीणावेणुमृदङ्गादिवाघविशेषाणां शब्दैः कलकलध्वनिभिः संप्रणादितानि-सम्यक्तया श्रोतृजनमनोहारितया प्रकर्षण सततं, नादितानि-शब्दायितानि 'पडागमालाउलाभिरामा' पताकामालाकुलाभिरामाणि पताकायां सम्बद्धानि पताकारूपाणि वा यानि मालाकुलानि तैरभिरामाणि रमणीयानि 'सव्वरयणामया' सर्वरत्नमयानि-सर्वात्मना ऊपर से नीचे तक लटकती हुई, विस्तीर्ण और गोलाकार मालाओं के समूह सुशोभित होते हैं। पांच वर्षों के सरस एवं सुगंधयुक्त पुष्पों के समूह के उपचार से युक्त हैं । इन स्थानों में बहुसंख्यक वान-व्यन्तर देव निवास करते हैं। રહે છે. ઊપરથી નીચે સુધી લટકતી વિસ્તીર્ણ અને ગળાકાર માળાઓના સમૂહથી સુશોભિત હોય છે. પાંચ રંગના સરસ તેમજ સુગંધયુકત પુષ્પના સમહ વિખરાયેલા હોય છે. આ સ્થાનમાં વનવ્યંતર દેવ નિવાસ કરે છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧