Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 451
________________ ११० तृतीयं परिशिष्टम्- टिप्पनानि एव प्रदेशो जीवो न शेषप्रदेशाः, एतत्सूत्रालापकप्रामाण्यादिति । एवं विप्रतिपन्नोऽसाविति ॥२३३६।। ततः किम् ? इत्याह- गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो । तो तप्परिणामो च्चिय जीवो कहमंतिमपएसो ? ॥२३३७।। ‘एकोऽन्त्यप्रदेशो जीवः, तद्भावभावित्वाज्जीवत्वस्य' इत्यादि ब्रुवाणस्तिष्यगुप्तो गुरुणा वसुसूरिणाऽभिहितः- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवो न संमतः, ततस्तन्तिमो जीवप्रदेशः कथं केन प्रकारेण जीवः ? न घटत एव सोऽपि जीव इत्यर्थः। कुतः ? तत्परिणाम इति कृत्वा । इदमुक्तं भवतिभवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्यपरिणामत्वात्, प्रथमाद्यन्यप्रदेशवदिति ॥२३३७।। को जाणइ किं साहू देवो वा तो न वंदणिज्जो त्ति । होजाऽसंजयनमणं होज मुसावायममुगो त्ति ॥२३५९॥ को जानाति- किमयं साधुवेषधारी साधुर्देवो वा ?- नास्त्येवात्र निश्चय इत्यर्थः । न च वक्तव्यम्- साधुरेवायम्, तद्वेष-समाचारदर्शनात्, भवानिव; आर्याषाढदेवेऽपि साधुवेष-समाचारदर्शनेनानैकान्तिकत्वात् । तस्माद् न कोऽपि वन्दनीयः, संशयविषयत्वात् । यदि पुनर्वन्द्यते तदाऽऽर्याषाढदेववन्दन इवासंयतवन्दनं स्यात् । तदमुको ब्रवीति- भाषणे च मृषावादः स्यादिति ॥२३५९॥ - विशेषाव० मलधारि० । [पृ०७०६ पं०२३] स्थविरवचनं यदि परे सन्देहः किं सुर इति साधुरिति ? । देवे कथं न शङ्का किं स देवो न देव इति ? ॥२३६०॥ तेन कथितमिति वा मतिर्देवोऽहं रूपदर्शनाच्च। साधुरिति कथं कथिते समानरूपे का शङ्का ? ॥२३६१॥ देवस्य वा किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपीह वन्दध्वे यज्जानन्तोऽपि यतय इति ॥२३६२॥ - इति संस्कृते छाया ॥ [पृ०७०७] “न हि सव्वहा विणासोऽद्धापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥२३९३॥ न हि सर्वथैव वस्तुनो विनाशो युक्तः । क्व सति ? इत्याह - अद्धापर्यायमात्रनाशे । तत्रेहाद्धा नारकादीनामुत्पत्तिप्रथमादिसमयः, स एव पर्यायमानं तस्य नाशोऽपगमस्तस्मिन् सति । कथंभूतस्य वस्तुनः ? इत्याह- स्व-परपर्यायानन्तधर्मकस्य। इदमुक्तं भवति- यस्मिन्नैव समये तद् नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते । अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नम्, ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम्, अनन्तपर्यायात्मकस्य वस्तुन एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दूरविरुद्धत्वात् ? इति ॥२३९३॥ ___ अत्र पराभिप्रायमाशङ्कय परिहरति- अह सुत्ताउ त्ति मई सुत्ते नणु सासयं पि निद्दिटुं। वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए ॥२३९४॥ अथ पूर्वोक्तालापकरूपात् सूत्रात् सूत्रप्रामाण्यात् प्रतिसमयं सर्वथा वस्तूच्छेदः प्रतिपाद्यत इति तव मतिः । ननु यदि सूत्रं तव प्रमाणम्, तर्हि सूत्रे द्रव्यार्थतया शाश्वतमपि वस्त्वन्यत्रोक्तमेव, पर्यायार्थतयैव चाशाश्वतम्; तथा च सूत्रम्- ‘नेरइया णं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588