Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 467
________________ १२६ तृतीयं परिशिष्टम्- टिप्पनानि पं०६] यथा जलमवगाहमानो बहुचेलोऽपि शिरोवेष्टितकटिकः भण्यते नरोऽचेलस्तथा मुनयः सचेला अपि ॥२६००॥ - इति संस्कृते छाया । “इदमेवौपचारिकमचेलत्वं भावयति- परिसुद्ध जुण्ण कुच्छिय थोवाऽनिययन्नभोगभोगेहिं। मुणओ मुच्छारहिया संतेहिं अचेलया होंति ॥२५९९॥ मुनयः साधवो मूर्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति । कथंभूतैश्चेलैः ? इत्याह- परिसुद्ध त्ति लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः, कुत्सितैरसारैः, स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छै;; अनिययनभोगभोगेहिं ति अनियतभोगेन कादाचित्कासेवनेन भोग: परिभोगो येषां तानि तथा तैः। एवंभूतैश्चेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यन्ते । तथा, अन्नभोगभोगेहिं ति एवमपि योज्यते। ततश्च लोकरूढप्रकारान्यप्रकारेण भोग आसेवनम्, प्रकारलक्षणस्य मध्यपदस्य लोपात्, अन्यभोगस्तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैश्चेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साधोरपि कच्छाबन्धाभावात्, कूर्पराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः । तदेवं परिसुद्ध-जुण्ण-कुच्छिय इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूर्छाऽभावाच्च मुनयोऽचेलका व्यपदिश्यन्त इतीह तात्पर्यम् ॥२५९९॥ तदेवं कषायहेतुत्वादग्राह्यं वस्त्रादिकमित्येतद् निराकृतम् । अथ मूर्छाहेतुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाह- अह कुणसि थुलवत्थाइएसु मुच्छ धुवं सरीरे वि। अक्केजदुल्लभयरे काहिसि मुच्छं विसेसेणं ॥२५६४।। वत्थाइगंथरहिया देहा-ऽऽहाराइमित्तमुच्छाए। तिरियसबरादओ नणु हवंति निरओवगा बहुसो ॥२५६५॥ अपरिग्गहा वि परसंतिएसु मुच्छाकसाय-दोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥२५६६॥ देहत्थवत्थ-मल्लाऽणुलेवणा-ऽऽभरणधारिणो केइ । उवसग्गाइसु मुणओ निस्संगा केवलमुविंति ॥२५६७।। अथ स्थूलेषु बाह्यत्वात्, क्षणमात्रेणैवाग्नि-तस्करायुपद्रवगम्यत्वात्, सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूर्छा करोषि त्वम्, तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूर्छा करिष्यसि। कुतो विशेषेण तत्र तत्करणमित्याह- अक्केजदुल्लभयरे त्ति विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरं क्रयेण क्वापि लभ्यते । अत एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, विशिष्टतरकार्यसाधकत्वाच्च विशेषेण शरीरे मूर्छा करिष्यसीति । अथ देहादिमात्रे या मूर्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्छा तु बह्वी, ततो देहादिमात्रमूर्छासंभवेऽपि नग्नश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह- वत्थाइ इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थः- तिर्यक्शबरादयोऽल्पपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिद्र्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588