Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 477
________________ तृतीयं परिशिष्टम् - टिप्पनानि [पृ० ८२७] " धायइसंडे मेरू, चुलसीइ सहस्स ऊसिया दोऽवि । ओगाढा य सहस्सं, तं चि सिहरम्मि वित्थिन्ना ||३|५७ || व्या० धातकीखण्डे द्वौ मेरू, तद्यथा - एकः पूर्वार्ध, एकोऽपरार्धे, तौ च द्वावपि उच्छ्रितौ तदेव चैकं सहस्रं शिखर उपरितले विस्तीर्णौ १००० || ३|५७॥ मूले पणनउय सया चउणउय सया य हाइ धरणियले । विक्खंभो चत्तारि य वणाइ जह जंबूदीवम्मि ||३|५८ ॥ व्या० मूले भूमिमध्ये विष्कंभो द्वयोरपि मेर्वोः प्रत्येकं पञ्चनवतियोजनशतानि ९५००, धरणितले चतुर्नवति योजनशतानि ९४०० । यथा च जम्बूद्वीपे मेरौ चत्वारि वनानि तथा एतयोरपि मेर्वोः प्रत्येकं चत्वारि चत्वारि वनानि द्रष्टव्यानि । तद्यथा - भूमौ भद्रशालवनम्, प्रथममेखलायां नन्दनवनम्, द्वितीयमेखलायां सौमनसम्, शिरसि पण्डकवनमिति || ३ | ५८ ||" - बृहत्क्षेत्र० मलय० । [पृ०८३३ पं०६] “आयंगुलेण वत्थं, उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगलेणं तु || ३४९ ।। व्या० आत्माङ्गुलेन मिमीष्व वास्तु, तच्च त्रिविधम्, तद्यथाखातमुच्छ्रितमुभयं च । तत्र खातं कूप - तडाग - भूमिगृहादि, उच्छ्रितं धवलगृहादि, उभयं भूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनाङ्गुलेन मिमीष्व देहं सुरादीनां शरीरम् । प्रमाणाङ्गुलेन पुनर्मिमीष्व नगपृथिवीविमानानि, तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो घर्मादयः, विमानानि सौधर्मावतंसकादीनि, विमानग्रहणं भवननरकावासाद्युपलक्षणम्, तेन तान्यपि प्रमाणाङ्गुलेन मिमीष्व ॥ [पं०९] जोयणसहस्समहियं, ओहेण एगिंदिए तरुगणेसु । मच्छजुअले सहस्सं, उरगेसु य भजाई || ३०७ || व्या० ओघेन सामान्यरूपेणैकेन्द्रियसामान्यचिन्तायामेकेन्द्रियाणमित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहस्रमधिकं किञ्चित्समधिकम्, तच्च समुद्रादिगतं पद्मनालमवसेयम्। तथा मत्स्ययुगलेगर्भव्युत्क्रान्तिकसंमूर्च्छिमलक्षणे उरगेषु च सर्पजातीयेषु गर्भजातिषु गर्भजन्मसु देहप्रमाणं प्रत्येकं योजनसहस्रं परिपूर्णमुक्तम् ॥” - बृहत्सं० मलय० । [पृ०८३४ पं०१२] “आलोचनादोषान् प्रतिपादयन्नाह - आकंपिय अणुमणिय जं दिट्ठ वादरं च सुहुमं च । छण्णं सद्दाकुलियं बहुजणमव्वत्त तस्सेवी ||१५|| आकंपिय आकम्पितदोष भक्तपानोपकरणादिनाऽऽचार्यमाकम्प्यात्मीयं कृत्वा यो दोषमालोचयति तस्याकंपितदोषो भवति । अणुमणिय अनुमानितं शरीराहारतुच्छबलदर्शनेन दीनवचनेनाचार्यमनुमान्यात्मनि करुणापरमाचार्यं कृत्वा यो दोषमात्मीयं निवेदयति तस्य द्वितीयोऽनुमानितदोषः । जं दिट्टं यद् दृष्टं अन्यैर्यदवलोकितं दोषजातं तदालोचयत्यदृष्टमगृहयति यस्तस्य तृतीयो दृष्टनामाऽऽलोचनादोषः । बादरं च - स्थूलं च व्रतेष्वहिंसादिकेषु य उत्पद्यते दोषस्तमालोचयति सूक्ष्म नालोचयति यस्तस्य चतुर्थो बादरनामालोचनादोषः स्यात् । सुहुमं च सूक्ष्मं च सार्द्रहस्तपरामर्शादिकं सूक्ष्मदोषं प्रतिपादयति महाव्रतादिभंगं स्थूलं तु नाचष्टे यस्तस्य पंचमं सूक्ष्मं नामालोचनदोषजातं भवेत् । छण्णं प्रच्छन्नं व्याजेन दोषकथनं कृत्वा स्वतः प्रायश्चित्तं य करोति तस्य षष्ठं प्रच्छन्नं नामालोचनदोषजातं भवति । सद्दाकुलियं शब्दाकुलितं पाक्षिकचातुर्मासिकसांवत्सरिकादिप्रतिक्रमणकाले बहुजनशब्दसमाकुले आत्मीयापराधं निवेदयति तस्य १३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588