Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 501
________________ १६० तृतीयं परिशिष्टम्- टिप्पनानि [पृ०८५९] “उक्तमिच्छाकारद्वारमथ मिथ्याकारद्वारनिरूपणायाह- संजमजोगे अब्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एतं ति वियाणिऊण तं दुक्कडं देयं ॥१२॥१०॥ व्या० संयमयोगे चरणव्यापारे समितिगुप्त्यादौ । अभ्युत्थितस्य प्रवृत्तस्य सतः । यत्किंचिद् यत्किमपि सामान्यतोऽल्पमनल्पं वेत्यर्थः । वितथमन्यथाभूतं संयमाननुकूलमित्यर्थः । आचरितमनुष्ठानम् आपन्नमिति शेषः । मिथ्या संयमविपरीतम् । एतदिदम् । इत्येवम् । विज्ञायावबुद्ध्य । तत् दुष्कृतं मिथ्यादुष्कृतम्, यदिदं मिथ्या मिथ्याचरितं मदीयं तत् दुष्कृतं मिथ्यादुष्कृतं दुष्टानुष्ठानं पापमित्येवमर्थम्, अथवा मिथ्येदं दुष्कृतमित्येकार्थशब्दद्वयरूपं सदोषप्रतिपत्तिपूर्वकपश्चात्तापप्रकर्षप्रकाशनगर्भं वाक्यम् । देयं प्रयोक्तव्यम् । इति गाथार्थः ॥१०॥ अथ तथाकारस्यैव विषयाभिधानायाह- वायणपडिसुणणाए उवएसे सुत्तअट्ठकहणाए । अवितहमेयं ति तहा अविगप्पेणं तहक्कारो ॥१२॥१५॥ व्या० वाचनायाः सूत्रदानस्य प्रतिश्रवणा श्रवणं वाचनाप्रतिश्रवणा, तस्याम् । तथाकारः प्रयोक्तव्य इति योगः । इदमुक्तं भवति- वाचनां प्रयच्छति सति गुरौ सूत्रग्राहिणा तथाकार: कार्यः । तथोपदेशे सामान्येन सामाचारीप्रतिबद्धे । तथा सूत्रार्थकथनायां व्याख्यान इत्यर्थः । अवितथं सत्यम् । एतत् यद्यूयं ब्रूथेति ख्यापनपरः । तथेति समुच्चयार्थः 'सूत्रार्थकथना'पदस्यादौ द्रष्टव्यः । अविकल्पेन निःसंदेहेन सता । तथाकारः तथेतिशब्दप्रयोगः । कार्यों भवतीति शेषः । इति गाथार्थः ॥१५॥ ____ अथ तथाकारो यं प्रति युज्यते तद्दर्शनार्थमाह- कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स। संयमतवड्ढगस्स उ अविगप्पेणं तहक्कारो ॥१२॥१४॥ व्या० कल्पो विधिः, आचार इत्यर्थः । अकल्पश्चाविधिः । अथवा कल्पो जिनकल्पस्थविरकल्पादिः, अकल्पस्तु चरकादिदीक्षा । अथवा कल्प्यं ग्राह्यम्, अकल्प्यमितरत् । ततः समाहारद्वन्द्वात् कल्पाकल्पं कल्प्याकल्प्यं वा । तत्र परिनिष्ठितस्य ज्ञाननिष्ठां प्राप्तस्य । अनेन च ज्ञानसंपदुक्ता । तथा तिष्ठन्ति मुमुक्षवो येषु तानि स्थानानि महाव्रतानि तेषु । पञ्चस्विति स्वरूपविशेषणम् । यतो न तान्येकादीनि भवन्ति । यत्रापि चत्वारि तान्युच्यन्ते, तत्रापि वस्तुतः पञ्चैवेति । स्थितस्याश्रितस्य । अनेन च मूलगुणसंपत्तिरुक्ता । तथा संयमः प्रत्युपेक्षोपेक्षादिः, तथा तपश्चानशनादि, ताभ्यामाढ्यः परिपूर्णः, स एव संयमतपआढ्यकस्तस्य। अनेन चोत्तरगुणसंपत्तिरुक्ता । तुशब्द एवकारार्थः । तस्य किमित्याहअविकल्पेन निर्विकल्पं तदीयवचनेऽवितथत्वात् शङ्कामकुर्वाणेनेत्यर्थः । तथाकारो यथा यूयं वदथ तथैवैतदित्यर्थसंसूचकस्तथेति शब्दप्रयोगः । कार्य इति गम्यम् इति गाथार्थः ॥१४॥ ___ उक्तस्तथाकारोऽथावश्यिकी स्वरूपत आह- कज्जेणं गच्छंतस्स गुरुणिओएण सुत्तणीईए । आवस्सियत्ति णेया सुद्धा अण्णत्थजोगाओ ॥१२॥१८॥ व्या० कार्येण ज्ञानादिप्रयोजनेन । अनेन निष्कारणगमननिषेध उक्तः । गच्छतो वसतेर्निर्गच्छतः साधोः, किं स्वच्छन्देन ? नेत्याह- गुरुनियोगेन गुर्वनुज्ञया । तत्रापि सूत्रनीत्याऽऽगमन्यायेन ईर्यासमित्यादिलक्षणेन । किमित्याह- आवश्यिकी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588