________________
१६०
तृतीयं परिशिष्टम्- टिप्पनानि [पृ०८५९] “उक्तमिच्छाकारद्वारमथ मिथ्याकारद्वारनिरूपणायाह- संजमजोगे अब्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एतं ति वियाणिऊण तं दुक्कडं देयं ॥१२॥१०॥ व्या० संयमयोगे चरणव्यापारे समितिगुप्त्यादौ । अभ्युत्थितस्य प्रवृत्तस्य सतः । यत्किंचिद् यत्किमपि सामान्यतोऽल्पमनल्पं वेत्यर्थः । वितथमन्यथाभूतं संयमाननुकूलमित्यर्थः । आचरितमनुष्ठानम् आपन्नमिति शेषः । मिथ्या संयमविपरीतम् । एतदिदम् । इत्येवम् । विज्ञायावबुद्ध्य । तत् दुष्कृतं मिथ्यादुष्कृतम्, यदिदं मिथ्या मिथ्याचरितं मदीयं तत् दुष्कृतं मिथ्यादुष्कृतं दुष्टानुष्ठानं पापमित्येवमर्थम्, अथवा मिथ्येदं दुष्कृतमित्येकार्थशब्दद्वयरूपं सदोषप्रतिपत्तिपूर्वकपश्चात्तापप्रकर्षप्रकाशनगर्भं वाक्यम् । देयं प्रयोक्तव्यम् । इति गाथार्थः ॥१०॥
अथ तथाकारस्यैव विषयाभिधानायाह- वायणपडिसुणणाए उवएसे सुत्तअट्ठकहणाए । अवितहमेयं ति तहा अविगप्पेणं तहक्कारो ॥१२॥१५॥ व्या० वाचनायाः सूत्रदानस्य प्रतिश्रवणा श्रवणं वाचनाप्रतिश्रवणा, तस्याम् । तथाकारः प्रयोक्तव्य इति योगः । इदमुक्तं भवति- वाचनां प्रयच्छति सति गुरौ सूत्रग्राहिणा तथाकार: कार्यः । तथोपदेशे सामान्येन सामाचारीप्रतिबद्धे । तथा सूत्रार्थकथनायां व्याख्यान इत्यर्थः । अवितथं सत्यम् । एतत् यद्यूयं ब्रूथेति ख्यापनपरः । तथेति समुच्चयार्थः 'सूत्रार्थकथना'पदस्यादौ द्रष्टव्यः । अविकल्पेन निःसंदेहेन सता । तथाकारः तथेतिशब्दप्रयोगः । कार्यों भवतीति शेषः । इति गाथार्थः ॥१५॥ ____ अथ तथाकारो यं प्रति युज्यते तद्दर्शनार्थमाह- कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स। संयमतवड्ढगस्स उ अविगप्पेणं तहक्कारो ॥१२॥१४॥ व्या० कल्पो विधिः, आचार इत्यर्थः । अकल्पश्चाविधिः । अथवा कल्पो जिनकल्पस्थविरकल्पादिः, अकल्पस्तु चरकादिदीक्षा । अथवा कल्प्यं ग्राह्यम्, अकल्प्यमितरत् । ततः समाहारद्वन्द्वात् कल्पाकल्पं कल्प्याकल्प्यं वा । तत्र परिनिष्ठितस्य ज्ञाननिष्ठां प्राप्तस्य । अनेन च ज्ञानसंपदुक्ता । तथा तिष्ठन्ति मुमुक्षवो येषु तानि स्थानानि महाव्रतानि तेषु । पञ्चस्विति स्वरूपविशेषणम् । यतो न तान्येकादीनि भवन्ति । यत्रापि चत्वारि तान्युच्यन्ते, तत्रापि वस्तुतः पञ्चैवेति । स्थितस्याश्रितस्य । अनेन च मूलगुणसंपत्तिरुक्ता । तथा संयमः प्रत्युपेक्षोपेक्षादिः, तथा तपश्चानशनादि, ताभ्यामाढ्यः परिपूर्णः, स एव संयमतपआढ्यकस्तस्य। अनेन चोत्तरगुणसंपत्तिरुक्ता । तुशब्द एवकारार्थः । तस्य किमित्याहअविकल्पेन निर्विकल्पं तदीयवचनेऽवितथत्वात् शङ्कामकुर्वाणेनेत्यर्थः । तथाकारो यथा यूयं वदथ तथैवैतदित्यर्थसंसूचकस्तथेति शब्दप्रयोगः । कार्य इति गम्यम् इति गाथार्थः ॥१४॥ ___ उक्तस्तथाकारोऽथावश्यिकी स्वरूपत आह- कज्जेणं गच्छंतस्स गुरुणिओएण सुत्तणीईए । आवस्सियत्ति णेया सुद्धा अण्णत्थजोगाओ ॥१२॥१८॥ व्या० कार्येण ज्ञानादिप्रयोजनेन । अनेन निष्कारणगमननिषेध उक्तः । गच्छतो वसतेर्निर्गच्छतः साधोः, किं स्वच्छन्देन ? नेत्याह- गुरुनियोगेन गुर्वनुज्ञया । तत्रापि सूत्रनीत्याऽऽगमन्यायेन ईर्यासमित्यादिलक्षणेन । किमित्याह- आवश्यिकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org