________________
तृतीयं परिशिष्टम्- टिप्पनानि
१६१ अवश्यंकृत्यनिर्वृत्ता निर्गमक्रिया, तत्सूचिका वाक् । इत्येवमुक्तन्यायेन । ज्ञेयाऽवसेया । किंभूता ? शुद्धाऽनवद्या । कुत इत्याह- अन्वर्थयोगादनुगतशब्दार्थसंबन्धात् । अन्वर्थश्चोक्त एव, प्रकारान्तरेण पुनरशुद्धा । इति गाथार्थः ॥१८॥
उक्तावश्यिकी सांप्रतं नैषेधिकीमाह- एवोग्गहप्पवेसे णिसीहिया तह णिसिद्धजोगस्स । एयस्सेसो उचिओ इयरस्स ण चेव नत्थि त्ति ॥१२॥२२॥ व्या० एवमुक्तेनावश्यिकीन्यायेन ज्ञानादिकार्यलक्षणेन । अवग्रहप्रवेशे शय्यादिप्रवेशने । नैषेधिकी सामाचारीविशेषो भवति । तथेत्यवग्रहप्रवेशापेक्षया विशेषणान्तरसमुच्चयार्थः, तच्चेदम्- निषिद्धयोगस्येति । अथवा तथाऽऽगमन्यायेन। निषिद्धयोगस्य निरुद्धासद्व्यापारस्य । कस्मादियमस्येत्याह- एतस्य निषिद्धयोगस्य। एष नैषेधिकीशब्दस्यान्वर्थयोगः, नैषेधिकीशब्दोच्चार इत्यन्ये । उचित: संगतः । विपर्ययमाहइतरस्यानिषिद्धयोगस्य पुनः । नैव । उचित एष इति प्रकृतम् । चशब्दः पुनरर्थः स च संबन्धित एव । कस्मान्नोचित इत्याह- नास्तीति न विद्यतेऽन्वर्थ इति कृत्वा । इति गाथार्थः ॥२२॥ ___ उक्ता नैषेधिकी, अथाप्रच्छनामाह- आउच्छणा उ कजे गुरुणो गुरुसम्मयस्स वा णियमा। एवं खु तयं सेयं जायति सति णिजराहेउ ॥१२॥२६॥ व्या० आपृच्छायाः करणं आप्रच्छना। तुशब्दः पुनरर्थः । तत आप्रच्छना पुनः । कार्ये ज्ञानादिसाधने प्रयोजने सति । कार्येति शेषः, कस्येत्याह- गुरो रत्नाधिकस्य । तत्संमतस्य वा गुरुबहुमतस्य वा स्थविरादेः । वाशब्दो विकल्पार्थः । नियमादवश्यंभावेन । अथ कस्मादेषा विधेयेत्याह- एवं खु एवमेव गुर्वाद्यापृच्छापूर्वकमित्यर्थः । तत्कार्यम् । श्रेयोऽतिशयेन प्रशस्यम् । जायते भवति । सकृत्सदा । निर्जराहेतु कर्मक्षयकारणमिति कृत्वा। इति गाथार्थः ॥२६॥ ___ उक्ता प्रच्छनाऽथ प्रतिपृच्छामाह- पडिपुच्छणा उ कजे पुव्वणिउत्तस्स करणकालम्मि । कजंतरादिहेउं णिहिट्रा समयकेऊहिं ॥१२॥३०॥ व्या० प्रतिपच्छायाः करणं प्रतिप्रच्छना पुनः। तुशब्दः पुनरर्थः । कार्ये प्रयोजने । पूर्वनियुक्तस्य पूर्वकाले गुरुभिर्व्यापारितस्य सतः । निर्दिष्टेति योगः । कदेत्याह- करणकाले विधानावसरे । कस्मादेतदेवमित्याह- कार्यान्तरं प्रागुपदिष्टकार्यादन्यत्कार्यं तदादिर्यस्य तनिषेधादेः स तथा, स एव हेतुर्निमित्तं कार्यान्तरादिहेतुस्तस्मात्कार्यान्तरादिहेतोः । द्वितीयायाः पञ्चम्यर्थत्वात् । निर्दिष्टोपदिष्टा । समयकेतुभिः प्रकाशकतया प्रवचनचिह्नभूतैः इति गाथार्थः ॥३०॥" - पंचाशक० ।।
[पृ० ८६०] उक्ता प्रतिपृच्छा अथ च्छन्दनामाह- पुव्वगहिएण छंदण गुरुआणाए जहारिहं होति । असणादिणा उ एसा णेयेह विसेसविसउ त्ति ॥१२॥३४॥ व्या० पूर्वगृहीतेन च्छन्दनावसरापेक्षया प्राक्कालोपात्तेन । अशनादिनेति योग: । या निमंत्रणा सेति गम्यम् । छन्दना भवतीति योगः । कथम् ? गुर्वाज्ञया, न रत्नाधिकादेशेन, स्वातन्त्र्येण । तत्रापि यथार्ह बालग्लानादितद्योग्यानतिक्रमेण। यदाह- ‘इयरो संदिसह त्ति य पाहुणखमए गिलाणसेहे य । अह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org