________________
१६२
तृतीयं परिशिष्टम् - टिप्पनानि
राइणियं सव्वे उ चियत्तेणं निमंतेज्जा || १ || ' ' इयरो त्ति' मण्डल्यनुपजीवी । 'चियत्तेणं ति' प्रीत्या । भवति स्यात् । अशनादिनाऽशनपानकप्रभृतिना । तुशब्दः पुनरर्थः, स च भिन्नक्रमः । ननु किं सर्वेषां साधूनामियं विधेयेत्याशंक्याह - एषा तु इयं पुनः छन्दना । ज्ञेया ज्ञातव्या । इह सामाचारीविषये । विशेषविषया साधुविशेषगोचरा, न तु सामान्यतः । इतिशब्दो वाक्यार्थसमाप्तौ । इति गाथार्थः
I
॥३४॥
I
उक्ता च्छन्दनाऽथ निमन्त्रणमाह- सज्झायादुव्वाओ गुरुकिच्चे सेस असंतम्मि । तं पुच्छिउण कने सेसाण णिमन्तणं कुजा || १२|३८|| व्या० सब्भायादुव्वाउ त्ति स्वाध्यायध्यानादिकरणपरिश्रान्तः सन् । गुरुकृत्ये रत्नाधिककार्ये विश्रामणा वस्त्रपरिकर्मादौ । शेषके कृतावशेषे । असति अविद्यमाने । किमत आह- तं गुरुम् । पृष्ट्वा यदुताहं साधुनिमित्तं भक्ताद्यानयामीत्यापृच्छ्य । कार्ये भक्तपानकादिप्रयोजने । तद्विषयमित्यर्थः । शेषाणां गुरुव्यतिरिक्तानाम् । निमन्त्रणमामन्त्रणं भवदर्थं भक्ताद्यानयामीत्येवंलक्षणम् । कुर्याद्विदध्यादिति गाथार्थः ||३८||
अथोपसंपदमाह- उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य । दंसणणाणे तिविहा दुविहा य चरित्तमट्ठा || १२|४२ ।। व्या० उपसंपदात्मनिवेदनारूपा । चशब्दः पुनरर्थः । त्रिविधा त्रिभिः प्रकारैः । भवतीति गम्यम् । ज्ञाने श्रुतज्ञाने विषयभूते । तथेति समुच्चये । दर्शने सम्यक्त्वे । चरित्रे चरणे । चशब्दः समुच्चये । तत्र दंसणनाणे त्ति सम्यक्त्वज्ञानयोर्विषये । त्रिविधा त्रिप्रकारा । द्विधा च द्विप्रकारा पुनः । चरित्रार्थाय चारित्रप्रयोजनाय । इति गाथार्थः ॥ ४२ ॥
एतद्विवरणायाह- वत्तणसंधणगहणे सुत्तत्थोभयगया उ एस त्ति । वेयावच्चे खमणे काले पुण आवकहियादी | १२|४३|| व्या० वर्तनं परावर्तनम्, संधानं विस्मृतस्य पुनरनुसन्धानम्, ग्रहणमुपादानमित्येषां समाहारद्वन्द्वोऽतस्तस्मिन् (तो) वर्तनसंधानग्रहणे विषयभूते, एतदर्थमित्यर्थः । एवं ज्ञानदर्शनविषयोपसंपत् त्रिविधा । किंगतेयमित्याह- सूत्रमर्थसूचकं वाक्यम्, अर्थस्तद्व्याख्यानम्, उभयमेतदेव द्वयम्, एतानि गताश्रिता सूत्रार्थोभयगता । तुशब्द एवकारार्थः, पुनरर्थो वा । एषेत्युपसंपत् । इतिशब्दः समाप्तौ । एवमियं त्रिविधापि त्रिविधेति नवधा जाता । अनेन च दंसणनाणे तिविहे त्ति विवृतम् । इह च दर्शनविषयायामुपसंपदि दर्शनप्रभावकसम्मत्यादिग्रन्थापेक्षया सूत्रार्थतदुभयान्यवगन्तव्यानि । तथा वैयावृत्ये भक्तादिदानरूपव्यावृत्तभावविषया क्षपणे चतुर्थादिरूपक्षपणविषया चोपसंपदिति प्रकृतम्। अनेन च दुविहा य चरित्तअट्ठाए त्ति व्याख्यातम् । काले पुनः कालपरिमाणमाश्रित्य पुनरियं चरणोपसंपत् । यावत्कथिक्यादिः यावत्कथिकी यावज्जीविकी, आदिशब्दादित्वरकालिका च भवतीति । एतदुक्तं भवति - चारित्रार्थमाचार्याय कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते । स च कालतो यावत्कथिक इत्वरश्च भवतीत्येवं क्षपकत्वेऽपि । इति गाथार्थः ||४३|| " पंचाशक ।
[पृ०८६० पं०१९] “२०. समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org