________________
तृतीयं परिशिष्टम् - टिप्पनानि
[पृ० ८२७] " धायइसंडे मेरू, चुलसीइ सहस्स ऊसिया दोऽवि । ओगाढा य सहस्सं, तं चि सिहरम्मि वित्थिन्ना ||३|५७ || व्या० धातकीखण्डे द्वौ मेरू, तद्यथा - एकः पूर्वार्ध, एकोऽपरार्धे, तौ च द्वावपि उच्छ्रितौ तदेव चैकं सहस्रं शिखर उपरितले विस्तीर्णौ १००० || ३|५७॥ मूले पणनउय सया चउणउय सया य हाइ धरणियले । विक्खंभो चत्तारि य वणाइ जह जंबूदीवम्मि ||३|५८ ॥ व्या० मूले भूमिमध्ये विष्कंभो द्वयोरपि मेर्वोः प्रत्येकं पञ्चनवतियोजनशतानि ९५००, धरणितले चतुर्नवति योजनशतानि ९४०० । यथा च जम्बूद्वीपे मेरौ चत्वारि वनानि तथा एतयोरपि मेर्वोः प्रत्येकं चत्वारि चत्वारि वनानि द्रष्टव्यानि । तद्यथा - भूमौ भद्रशालवनम्, प्रथममेखलायां नन्दनवनम्, द्वितीयमेखलायां सौमनसम्, शिरसि पण्डकवनमिति || ३ | ५८ ||" - बृहत्क्षेत्र० मलय० ।
[पृ०८३३ पं०६] “आयंगुलेण वत्थं, उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगलेणं तु || ३४९ ।। व्या० आत्माङ्गुलेन मिमीष्व वास्तु, तच्च त्रिविधम्, तद्यथाखातमुच्छ्रितमुभयं च । तत्र खातं कूप - तडाग - भूमिगृहादि, उच्छ्रितं धवलगृहादि, उभयं भूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनाङ्गुलेन मिमीष्व देहं सुरादीनां शरीरम् । प्रमाणाङ्गुलेन पुनर्मिमीष्व नगपृथिवीविमानानि, तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो घर्मादयः, विमानानि सौधर्मावतंसकादीनि, विमानग्रहणं भवननरकावासाद्युपलक्षणम्, तेन तान्यपि प्रमाणाङ्गुलेन मिमीष्व ॥
[पं०९] जोयणसहस्समहियं, ओहेण एगिंदिए तरुगणेसु । मच्छजुअले सहस्सं, उरगेसु य भजाई || ३०७ || व्या० ओघेन सामान्यरूपेणैकेन्द्रियसामान्यचिन्तायामेकेन्द्रियाणमित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहस्रमधिकं किञ्चित्समधिकम्, तच्च समुद्रादिगतं पद्मनालमवसेयम्। तथा मत्स्ययुगलेगर्भव्युत्क्रान्तिकसंमूर्च्छिमलक्षणे उरगेषु च सर्पजातीयेषु गर्भजातिषु गर्भजन्मसु देहप्रमाणं प्रत्येकं योजनसहस्रं परिपूर्णमुक्तम् ॥” - बृहत्सं० मलय० ।
[पृ०८३४ पं०१२] “आलोचनादोषान् प्रतिपादयन्नाह - आकंपिय अणुमणिय जं दिट्ठ वादरं च सुहुमं च । छण्णं सद्दाकुलियं बहुजणमव्वत्त तस्सेवी ||१५|| आकंपिय आकम्पितदोष भक्तपानोपकरणादिनाऽऽचार्यमाकम्प्यात्मीयं कृत्वा यो दोषमालोचयति तस्याकंपितदोषो भवति । अणुमणिय अनुमानितं शरीराहारतुच्छबलदर्शनेन दीनवचनेनाचार्यमनुमान्यात्मनि करुणापरमाचार्यं कृत्वा यो दोषमात्मीयं निवेदयति तस्य द्वितीयोऽनुमानितदोषः । जं दिट्टं यद् दृष्टं अन्यैर्यदवलोकितं दोषजातं तदालोचयत्यदृष्टमगृहयति यस्तस्य तृतीयो दृष्टनामाऽऽलोचनादोषः । बादरं च - स्थूलं च व्रतेष्वहिंसादिकेषु य उत्पद्यते दोषस्तमालोचयति सूक्ष्म नालोचयति यस्तस्य चतुर्थो बादरनामालोचनादोषः स्यात् । सुहुमं च सूक्ष्मं च सार्द्रहस्तपरामर्शादिकं सूक्ष्मदोषं प्रतिपादयति महाव्रतादिभंगं स्थूलं तु नाचष्टे यस्तस्य पंचमं सूक्ष्मं नामालोचनदोषजातं भवेत् । छण्णं प्रच्छन्नं व्याजेन दोषकथनं कृत्वा स्वतः प्रायश्चित्तं य करोति तस्य षष्ठं प्रच्छन्नं नामालोचनदोषजातं भवति । सद्दाकुलियं शब्दाकुलितं पाक्षिकचातुर्मासिकसांवत्सरिकादिप्रतिक्रमणकाले बहुजनशब्दसमाकुले आत्मीयापराधं निवेदयति तस्य
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org