________________
तृतीयं परिशिष्टम् - टिप्पनानि
सप्तमं शब्दाकुलं नामालोचनादोषजातम् । बहुजणं बहुजनं एकस्मै आचार्यायात्मदोषनिवेदनं कृत्वा प्रायश्चित्तं प्रगृह्य पुनरश्रद्दधानोऽपरस्मै आचार्याय निवेदयति यस्तस्य बहुजनं नामाष्टममालोचनादोषजातं स्यात् । अव्वत्त अव्यक्तः प्रायश्चित्ताद्यकुलो यस्तस्यामीयं दोषं कथयति यो लघुप्रायश्चित्तनिमित्तं तस्याव्यक्तनाम नवममालोचनादोषजातं भवेत् । तस्सेवी तत्सेवी य आत्मना दोषैः सम्पूर्णस्तस्य यो महाप्रायश्चित्तभयादात्मीयं दोषं प्रकटयति तस्य तत्सेवी नामा दशम आलोचनादोषो भवेत् । एवमेतैर्दशभिश्चतुरशीतिसहस्राणिगुणितान्यष्टलक्षाभ्यधिकानि चत्वारिंशत्सहस्राणि भवन्तीति ॥१५॥” इति वसुनन्दिविरचितटीकासहिते मूलाचारे एकादशे शीलगुणाधिकारे ॥
" उपकरणेषु दत्तेषु प्रायश्चित्तं मे लघु कुर्वन्तीति विचिन्त्य दानं प्रथममालोचनदोषः | १| प्रकृत्या दुर्बलो ग्लानोऽहम् उपवासादि न कर्तुमलं यदि लघु दीयेत ततो दोषनिवेदनं करिष्ये इति वचनं द्वितीयो दोषः ।२। अन्यादृष्टदोषगूहनं कृत्वा प्रकाशदोषनिवेदनं मायाचारस्तृतीयो दोषः | ३| आलस्यात् प्रमादाद्वा अल्पापराधावबोधनिरुत्सुकस्य स्थूलदोषप्रतिपादनं चतुर्थः |४| महादुश्चरप्रायश्चित्तभयान्महादोषसंवरणं कृत्वा तनुप्रमादाचारनिबोधनं पञ्चमः | ५ | पाक्षिकचातुर्मासिकसांवत्सरिकेषु कर्मसु महति यतिसमवाये आलोचनशब्दाकूले पूर्वदोषकथनं सप्तमः | ७| गुरूपपादितं प्रायश्चित्तं किमिदं युक्तम् आगमे स्यान्नवेति शङ्कमानस्यान्यसाधुपरिप्रश्नोऽष्टमः | ८ | यत्किञ्चित्प्रयोजनमुद्दिश्यात्मना समानायैव प्रमादाचरितमावेद्य महदपि गृहीतं प्रायश्चित्तं न फलकरमिति नवमः | ९| अस्यापराधेन ममातिचारः समानः तमयमेव वेत्ति अस्मै यद्दत्तं तदेव मे युक्तं लघूकर्त्तव्यमिति स्वदुश्चरितसंवरणं दशमो दोषः |१०|” इति तत्त्वार्थराजवार्तिके ९२२ ॥
[पृ०८३५] “पुव्वं अपासिऊणं, छूढे पादंमि जं पुणो पासे । ण य तरति णित्तेउं पादं सहसाकरणमेतं । ९७ ।। पुव्वमिति पढमं चक्खुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वज्जणं । अपासिऊणं ति जति ण दिट्ठा तंमि थंडिले पाणी । छूढे पायम्मीति पुव्वणसियथंडिलाओ उक्खित्ते पादे, चक्खुपडिलेहियथंडिलं असंपत्ते अंतरा वट्टमाणे पादे । जं पुणो पासे त्ति मिति पुव्वमदिट्ठे पाणिणं पुणो पच्छा पस्सेज्ज चक्खुणा । ण तरति ण सक्केति णसणकिरियव्वावारपवियट्टं पायं णियत्तेउं । पच्छा दिट्ठपाणिणो उवरिं णिसितो पाओ । तस्स य संघट्टणपरितावणाकिलावणोद्दवणादीया पीडा कता । एसा जा सहस्सकारपडिसेवा । सहस्साकरणमेयं ति सहसाकरणं सहसक्करणं जाणमाणस्स परायत्तस्सेत्यर्थः । एतमिति एयं सरूवं सहसक्कारस्स।” निशीथ० चूर्णिः ।
-
[पृ०८३९] “असुरा १ नाग २ सुवन्ना ३...[ प्रज्ञापनासू० २।१७७।१३७] अस्य टीका प्रथमविभागे गाथाविवरणे द्रष्टव्या पृ०३१ पं०१६ ।”
Jain Education International
१३७
[पृ०८४०] “नवि अत्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वावाहं उवगयाणं ।। ९८० ।। व्या० नैवास्ति मानुषाणां चक्रवर्त्यादीनामपि तत् सौख्यम्, नैव सर्वदेवानाम् अनुत्तरसुरपर्यन्तानामपि यत् सिद्धानां सौख्यम्, अव्याबाधामुपगतानामिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुप सामीप्येन गतानां प्राप्तानामिति गाथार्थः
"
For Private & Personal Use Only
www.jainelibrary.org