________________
१३८
तृतीयं परिशिष्टम्- टिप्पनानि
॥९८०॥" - आव० हारि० ।
"नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥१२८॥ टीका- राजराजश्चक्रवर्तीवासुदेवादिर्वा । पूर्वः सकलभरतक्षेत्राधिपतिः। उत्तरोऽर्धभरताधिपतिः । मनुष्यभवजन्मसुखस्य प्रकर्षवर्तिनावेतौ । वासुदेवचक्रवर्तिनोरपि नास्ति तादृशं सुखम्, यादृशं प्रशमस्थितस्येति । तद्धि चक्रवर्त्यादिसुखं शब्दादिसमृद्धिजनितं तस्य चानित्यत्वं प्राक् प्रतिपादितम् । न चैकान्तेन सुखहेतुत्वं शब्दादीनाम्, विपरिणतिधर्मत्वात् । देवेन्द्रस्य सुखं प्रकृष्टं स्यादिति, तदपि चोपरितनेन्द्रसुखप्रकर्षदर्शनात्तदाकांक्षिणः च्युतिचिन्तनाच्च दुःखव्यतिकीर्णमेव । अथवा देवराजः सर्वदेवोत्तमत्वादनुत्तरविमानवासी । तस्यापि यत् सुखं तदपि स्थितिक्षयं मनुष्ययोषिदुदरगर्तनिमज्जनं च दुःखमनुचिन्तयतस्तस्यापि न तादृक् सुखमस्ति दुःखलेशकलंकितम् । यदिहैव सुखं साधोर्मनुष्यजन्मनि प्रशमस्थितस्य विनिवृत्तसकलाकांक्षस्यात्महितगवेषिणो विशिष्टज्ञानसमन्वितस्य लोकव्यापाररहितस्य। लोकव्यापारः कृष्यादिप्रवृत्तिः कामभोगसाधनोपादित्सा । एवंविधेन व्यापारेण रहितस्य। प्रशमसुख एव व्यवस्थापितचेतोवृत्तेर्यत्सुखं न तद्राजराजे न देवराजे इति॥१२८॥" - प्रशम० ।
पृ०८५०] "जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊऽवि कहिंचि भण्णेज्जा ॥४९॥ व्या० जिना: प्राग्निरूपितस्वरूपाः तेषां वचनं तदाज्ञया सिद्धमेव सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः ?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, उक्तं च-रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ?॥१॥ इत्यादि, तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते क्वचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि क्वचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम् ?-पटुधियं मध्यमधियं च, न तु मन्दधियम् इति, तथाहि-पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न त्वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः ।
कत्थइ पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । न य पुण सव्वं भण्णइ हंदी सविआरमक्खायं ॥५०॥ व्या० श्रोतारमेवाङ्गीकृत्य क्वचित्पञ्चावयवं दशधा वेति क्वचिद्दशावयवम्, सर्वथा गुरु-श्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह-हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?, यस्मादिहान्यत्र च शास्त्रान्तरे सविचारं सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादयः, यथोक्तम्-प्रतिज्ञाहेतूदाहरणो-पनयनिगमनान्यवयवाः [न्यायद०१-१-३२]। दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च-ते उ पइण्णविहत्ती इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ।" - दशवै० हारि० ॥
[पृ०८५१ पं०४] “धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org