Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
तृतीयं परिशिष्टम्- टिप्पनानि
१५७ [पृ०८५६] “होही पजोसवणा मम य तया अंतराइयं हुजा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥१५६६॥ सो दाइ तवोकम्मं पडिवज्जे तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायव्वं ॥१५६७॥ भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥१५६६॥ स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागतकरणादनागतं ज्ञातव्यं भवतीति गाथार्थः ॥१५६७॥” - आव० हारि० ।
[पं०५,६] तुलना- “तुल्यद्विसमाहतिर्वा ॥२१॥... समत्रिराशिप्रहतिर्घनो वा ॥२६॥” इति श्रीपतिविरचिते गणिततिलके ॥
[पं०१३] “दश भेदान् प्रतिपादयन्नाह- अणागदमदिकंतं कोडीसहिदं णिखंडिदं चेव । सागारमणागारं परिमाणगदं अपरिसेसं ॥१३६॥ अणागदं अनागतं भविष्यत्कालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्त्तव्यं तत्त्रयोदश्यादिषु यत् क्रियते तदनागतं प्रत्याख्यानम्, अदिकंतं अतिक्रान्तम् अतीतकालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्त्तव्यमुपवासादिकं तत्प्रतिपदादिषु क्रियतेऽतिक्रान्तं प्रत्याख्यानम् । कोडीसहिदं कोटिसहितं संकल्पसमन्वितं शक्त्यपेक्षयोपवासादिकं श्वस्तने दिने स्वाध्यायवेलायामतिक्रान्तायां यदि शक्तिर्भविष्यत्युपवासादिकं करिष्यामि नो चेन्न करिष्यामीत्येवं यत् क्रियते प्रत्याख्यानं तत्कोटिसहितमिति, णिक्खंडिदं निखंडितं अवश्यकर्त्तव्यं पाक्षिकादिषूपवासकरणं निखंडितं प्रत्याख्यानम्, साकारं सभेदं सर्वतोभद्रकनकावल्याद्युपवासविधिर्नक्षत्रादिभेदेन करणं तत्साकारप्रत्याख्यानम्, अनाकारं स्वेच्छयोपवासविधिर्नक्षत्रादिकमंतरेणोपवासादिकरणमनाकारं प्रत्याख्यानम्, परिमाणगतं प्रमाणसहितं षष्ठाष्टमदशमद्वादशपक्षार्द्धपक्षमासादिकालादिपरिमाणेनोपवासादिकरणं परिमाणगतं प्रत्याख्यानम्, अपरिशेषं यावज्जीवं चतुर्विधाऽऽहारादित्यागोऽपरिशेषं प्रत्याख्यानम् ॥१३६।।
तथा- अद्धाणगदं णवमं दसमं तु सहेदुगं वियाणाहि । पच्चक्खाणवियप्पा णिरुत्तिजुत्ता जिणमदह्मि ॥१३७॥ अद्धाणगदं अध्वानं गतमध्वगतं मार्गविषयाटवीनद्यादिनिष्क्रमणद्वारेणोपवासादिकरणम्। अध्वगतं नाम प्रत्याख्यानं नवमम्, सहहेतुना वर्त्तत इति सहेतुकमुपसर्गादिनिमित्तापेक्षमुपवासादिकरणं सहेतुकं नाम प्रत्याख्यानं दशमं विजानीहि, एवमेतान्प्रत्याख्यानकरणविकल्पान्विभक्तियुक्तान्तथानुगतान् परमार्थरूपाञ्जिनमते विजानीहीति ॥१३७॥ - इति मूलाचारे वसुनन्दिश्रमणविरचितटीकासहिते ॥
[पृ०८५७] “पजोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥१५६८॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एयं पच्चक्खाणं अइकंतं होइ नायव्वं ॥१५६९।। पट्ठवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ । जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ॥१५७०॥ मासे मासे अ तवो अमुगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588