________________
१२६
तृतीयं परिशिष्टम्- टिप्पनानि पं०६] यथा जलमवगाहमानो बहुचेलोऽपि शिरोवेष्टितकटिकः भण्यते नरोऽचेलस्तथा मुनयः सचेला अपि ॥२६००॥ - इति संस्कृते छाया ।
“इदमेवौपचारिकमचेलत्वं भावयति- परिसुद्ध जुण्ण कुच्छिय थोवाऽनिययन्नभोगभोगेहिं। मुणओ मुच्छारहिया संतेहिं अचेलया होंति ॥२५९९॥ मुनयः साधवो मूर्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति । कथंभूतैश्चेलैः ? इत्याह- परिसुद्ध त्ति लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः, कुत्सितैरसारैः, स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छै;; अनिययनभोगभोगेहिं ति अनियतभोगेन कादाचित्कासेवनेन भोग: परिभोगो येषां तानि तथा तैः। एवंभूतैश्चेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यन्ते । तथा, अन्नभोगभोगेहिं ति एवमपि योज्यते। ततश्च लोकरूढप्रकारान्यप्रकारेण भोग आसेवनम्, प्रकारलक्षणस्य मध्यपदस्य लोपात्, अन्यभोगस्तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैश्चेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साधोरपि कच्छाबन्धाभावात्, कूर्पराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः । तदेवं परिसुद्ध-जुण्ण-कुच्छिय इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूर्छाऽभावाच्च मुनयोऽचेलका व्यपदिश्यन्त इतीह तात्पर्यम् ॥२५९९॥
तदेवं कषायहेतुत्वादग्राह्यं वस्त्रादिकमित्येतद् निराकृतम् । अथ मूर्छाहेतुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाह- अह कुणसि थुलवत्थाइएसु मुच्छ धुवं सरीरे वि। अक्केजदुल्लभयरे काहिसि मुच्छं विसेसेणं ॥२५६४।। वत्थाइगंथरहिया देहा-ऽऽहाराइमित्तमुच्छाए। तिरियसबरादओ नणु हवंति निरओवगा बहुसो ॥२५६५॥ अपरिग्गहा वि परसंतिएसु मुच्छाकसाय-दोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥२५६६॥ देहत्थवत्थ-मल्लाऽणुलेवणा-ऽऽभरणधारिणो केइ । उवसग्गाइसु मुणओ निस्संगा केवलमुविंति ॥२५६७।। अथ स्थूलेषु बाह्यत्वात्, क्षणमात्रेणैवाग्नि-तस्करायुपद्रवगम्यत्वात्, सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूर्छा करोषि त्वम्, तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूर्छा करिष्यसि। कुतो विशेषेण तत्र तत्करणमित्याह- अक्केजदुल्लभयरे त्ति विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरं क्रयेण क्वापि लभ्यते । अत एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, विशिष्टतरकार्यसाधकत्वाच्च विशेषेण शरीरे मूर्छा करिष्यसीति । अथ देहादिमात्रे या मूर्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्छा तु बह्वी, ततो देहादिमात्रमूर्छासंभवेऽपि नग्नश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह- वत्थाइ इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थः- तिर्यक्शबरादयोऽल्पपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिद्र्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org