________________
तृतीयं परिशिष्टम्- टिप्पनानि
१२७ मूर्छाकषायादिदोषैः कमलमनन्तमर्जयन्ति, तद् बहुशो निरयोपगा भवन्ति, न मोक्षप्रापकाः। अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्ध्या शरीरासञ्जितमहामूल्यवस्त्रा-ऽऽभरण-माल्य-विलेपनादिसंयुक्ता अपि सर्वसङ्गविनिर्मुक्ता निगृहीतात्मानो जितलोभादिकषायरिपवः समासादितविमलकेवलालोकाः सिद्धिमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसां नाग्न्यमात्रमिदमकिञ्चित्करमेवेति ॥२५६२-२५६७।।
किञ्च, यदि तीर्थकरवेष-चरितानुष्ठानवर्ती भवान्, तर्हि किं सर्वथा तैः सह वेष-चरिताभ्यां साधर्म्यं भवतः, उत देशतः ?। यद्याद्यः पक्षः, तर्हि यत् ते कुर्वन्ति, तत् सर्वमपि भवता कर्तव्यं प्राप्नोति; किं पुनस्तत् ? इत्याह- ‘न परोवएसवसया न य छउमत्था परोवएस पि । दिति, न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ तह सेसेहि वि सव्वं कज्जं जइ तेहिं सव्वसाहम्म। एवं च कओ तित्थं न चेदचेलो त्ति को गाहो ? ॥२५८८-८९॥ यदि तैर्जिनैस्तीर्थकरैः सह लिङ्ग-चरिताभ्यां सर्वसाधर्म्यम्, तर्हि यथा ते स्वयंबुद्धत्वाद् न परोपदेशवशगा:न परोपदेशेन वर्तन्ते, न च च्छद्मस्थावस्थायां प्रतिबोधार्थं परस्याप्युपदेशं ददति, न च शिष्यवर्ग दीक्षन्ते; तथा शेषैरपि तच्छिष्य-प्रशिष्यैः सर्वमेतत् त्वदभिप्रायेण कार्यं करणीयं प्राप्नोति । भवत्वेवं तर्हि, को दोषः ? इति चेत् । इत्याह- एवं च सति कुतस्तीर्थम्, कस्यापि प्रतिबोधाभावाद् दीक्षाद्यभावाच्च ?। न चेदिति अथ न तैः सह सर्वसाधर्म्यमित्युच्यते, तर्हि 'अचेलो भवाम्यहम्' इति कस्तव ग्रहः?, अचिन्त्यत्वात् तच्चरितस्येति ॥२५८८-८९॥” - विशेषाव० मलधारि०॥
पृ०८०६] “तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिहें कप्पग्गहणं गिलाणमरणट्ठया चेव ॥८१३॥ तृणग्रहणानलसेवानिवारणार्थं तथाविधसंहननिनाम्, तथा धर्मशुक्लध्यानार्थं समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः, ग्लानमरणार्थं चैव ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥" - पञ्चवस्तुकटीका।
“इदानीं तत्प्रयोजनप्रतिपादनायाह- तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा। दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥१०५९॥ वृ० तृणग्रहणनिवारणार्थं गृह्यन्ते, अनलःअग्निस्तत्सेवानिवारणार्थं च, एतदुक्तं भवति कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थं कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थं दृष्टं कल्पग्रहणम्, तथा ग्लानसंरक्षणार्थं मरणार्थं मृतस्योपरि दीयते कल्पः, एतदर्थं च ग्रहणमिति ॥१०५९।।" - ओघनि० द्रोणा० ॥
“अथ शय्यातरपिण्डद्वारमाह- तित्थंकरपडिकुट्ठो, आणा अण्णात उग्गमो ण सुज्झे । अविमुत्ति अलाघवता, दुल्लभ सेज्जा विउच्छेदो ॥६३७८॥ आद्यन्तवजैर्मध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तुमनुज्ञातं न पुनः शय्यातरपिण्डः अतस्तैः प्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम् । आण त्ति तं गृह्णता तीर्थकृतामाज्ञा कृता न भवति । अण्णाय त्ति यत्र स्थितस्तत्रैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org