________________
१२८
तृतीयं परिशिष्टम्- टिप्पनानि
भिक्षां गृह्णता अज्ञातोञ्छं सेवितं न स्यात् । उग्गमो न सुज्झे त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषा न शुध्येयुः । स्वाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्च गृह्णता अविमुक्तिः गााभावो न कृतः स्यात् । शय्यातरतत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृह्णत उपकरण-शरीरयोर्लाघवं न स्यात् । तत्रैव चाहारादि गृह्णतः शय्यातरवैमनस्यादिकरणात् शय्या दुर्लभा स्यात्, सर्वथा तद्व्यवच्छेदो वा स्यात् । अतस्तत्पिण्डो वर्जनीयः ॥६३७८।। ___ अथ के दोषाः ?' इति द्वारमाह- तित्थंकरपडिकुट्ठो, आणा अण्णाय उग्गमो ण सुज्झे। अविमुत्ति अलाघवता, दुल्लभ सेजा य वोच्छेदो ॥३५४०॥ तीर्थकरैः प्रतिक्रुष्टः निषिद्धः शय्यातरपिण्डोऽतस्तं गृह्णता तेषामाज्ञा न कृता भवति । अन्नाय त्ति अज्ञातोञ्छम् आसन्ननिवासवशाद् ज्ञातस्वरूपतया न शुध्यति । प्रत्यासन्नतया तत्रैव पुनः पुनः भैक्ष-पानादिनिमित्तं प्रविशत उद्गमोऽपि न शुध्यति । अविमुक्तिर्नाम स्वाध्यायश्रवणादिना आवर्जितः शय्यातरो दुग्ध-दध्यादि प्रणीतद्रव्यं ददाति, तद्ग्रहणलोलुपतया तद्गृहं न विमुञ्चति । 'अलाघवता तु' विशिष्टाहारलाभेन उपचितगलकपोलतया शरीरलाघवं प्रचुरवस्त्रादिलाभेन उपकरणलाघवं च न भवेत् । दुर्लभा च शय्या भवति, येन किल शय्या दत्ता तेनाहाराद्यपि देयमिति भयाद् भूयः शय्यामगारिणो न प्रयच्छन्तीति भावः। व्यवच्छेदश्च विनाशः शय्यायाः क्रियेत, अथवा भक्त-पानादिप्रतिषेध इह व्यवच्छेदशब्देनोच्यते। एष नियुक्तिगाथासमासार्थः ॥३५४०॥" - बृहत्कल्पटीका ।
[पृ०८१६ पं०१२] गोविन्दवाचकस्य कथा- “गोविंदवायगोऽवि य जह परपक्खं नियत्तेइ ॥८२॥ गोविंदेत्यादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहेण तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे ‘णो किंचि य पडिलोमं कायव्वं भवभएण मण्णेसिं । अविणीयसिक्खगाण उ जयणाइ जहोचिअं कुज्जा ॥१॥' द्रव्यानुयोगे तु गोपेन्द्रवाचकोऽपि च यथा परपक्षं निवर्तयतीत्यर्थः। सो य किर तच्चण्णिओ आसि, विणासणणिमित्तं पव्वइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः ।" - दशवै० हारि० ।
[पं० १२] गोविन्दवाचकस्य कथा- “गोविंदऽजो णाणे, दंसणसत्थट्ठहेतुगट्ठा वा । पावादिय उव्वरगा, उदायिवहगातिया चरणे ॥३६५६ ॥ गोविंदो णाम भिक्खू । सो एगेणायरिएण वादे जितो अट्ठारस वारा । ततो तेण चिंतियं सिद्धंतसरूवं जाव एतेसिं ण लब्भति ताहे ते जेतुं न सक्रेतो, ताहे सो णाणावरणहरणट्ठा तस्सेवायरियस्स अंते णिक्खंतो । तस्स य सामाइयादि पढेंतस्स सुद्धं सम्मत्तं। ___ ततो गुरु वंदित्ता भणति-देहि मे वते । णणु दत्ताणि ते वताणि । तेण सब्भावो कहितो । ताहे गुरुणा दत्ताणि से वयाणि । पच्छा तेण एगिदियजीवसाहणं गोविंदणिज्जुत्ती कया । एस णाणतेणो।
एवं दंसणपभावगसत्थट्ठा कक्कडगमादिहेतुगट्ठा वा जो णिक्खमति सो दंसणतेणो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org