________________
तृतीयं परिशिष्टम्- टिप्पनानि
१२५ स्वदेशपाटकगृहादिपरिग्रहः । यदशनादि । आनीय साधुस्थानं प्राप्य । ददातीत्यनुवर्तते । आहडं तु तं होइ त्ति तत्पुनराहृतमभ्याहृतं भवति स्यादिति । तथा छगणादिना गोमयमृत्तिकाप्रभृतिनोपलिप्तम्। कोष्ठकादीति गम्यते । कपाटपिहिताश्चेदमुपलक्षणम् । उद्भिद्योद्घाट्य । यद् भक्तादि । ददातीति वर्तते। तद् भक्तादि । उद्भिन्नमित्युच्यते। कोष्ठिकाद्युद्भिन्नभाजनसंबन्धात् इति गाथार्थः ॥१३/१३॥ ____ मालोहडं तु भणियं जं मालादीहि देति घेत्तूणं । अच्छेजं चाछिंदिय जं सामी भिच्चमादीणं ॥१३/१४॥ व्या० मालापहृतं दोषविशेषः । तुः पुनरर्थः। भणितमुक्तमाप्तेन तत्। यद्भक्तादि । मालादिभ्यः, मालो मञ्चो गृहोपरिभागो वा । आदिशब्दात् सीककनागदन्तकादीनामूर्ध्वगतानाम्, गर्तादीनामधोगतानाम्, कुशूलकुम्भ्यादीनामुभयाश्रितव्यापाराणां करेण कष्टप्राप्यानां च तिर्यगाश्रितानां परिग्रहः । ददाति प्रयच्छति । गृहीत्वा आदायेति । तथा आच्छेद्यं चाच्छेद्याख्यः पुनर्दोषः । आच्छिद्यापहत्य। यद्भक्तादि । स्वामी प्रभुः । भृत्यादीनां कर्मकरादीनां सत्कं ददाति तदिति । इदं च नायकनृपचौरभेदात्रिविधम्। इति गाथार्थः ॥१३/१४॥ ___ अणिसिटुं सामण्णं गोट्ठिगभत्तादि ददउ एगस्स । सट्ठा मूलद्दहणे अज्झोयर होइ पक्खेवो ॥१३/१५॥ व्या० अनिसृष्टमनिसृष्टसंज्ञो दोषो भवति । सामान्यमनेकस्वामिसाधारणम् । गोष्ठिकभक्तादि समुदायभोजनादि । आदिशब्दात् श्रेणिभक्तादिग्रहः । ददतो यच्छतः । एकस्य गोष्ठिकादेः, शेषैरननुज्ञातस्येति। तथा स्वार्थमात्मार्थं गृहिनिमित्तमित्यर्थः। मूलाद्रहणे प्रसिद्धे कृते सति । प्रक्षेपः स्थाल्यां साध्वाद्यर्थमधिककणक्षेपणम् । अध्यवपूरकोऽध्यवपूरकाख्यो दोषो भवतीति गाथार्थः ॥१३/१५॥" - पञ्चाश० अभय० ।
[पृ०८०५] “अथ प्रतिक्रमणद्वारमाह- सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं ॥६४२५।। सप्रतिक्रमण: उभयकालं षड्विधावश्यककरणयुक्तो धर्मः पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनां प्रमादबहुलत्वात् शठत्वाच्च । मध्यमानां तु जिनानां तीर्थे कारणजाते तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच्च ॥६४२५॥" - बृहत्कल्पटीका । ___ “इत्थं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुन:वम्, किन्त्वतिचारवत एव शुद्धिः क्रियत इति, आह च- सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१२४४।। व्या० सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यम्, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु मध्यमानां जिनानाम् अजितादीनां पार्श्वपर्यन्तानां कारणजाते अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ।।१२४४।।" - आव० हारि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org