________________
१२४
तृतीयं परिशिष्टम्- टिप्पनानि चतुर्विधानि। आह च- उद्देसियं समुद्देसियं च आएसियं समाएसं । एवं कडे य कम्मे एक्कक्के चउब्विहो भेओ ॥१॥ जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं ॥२॥ [ ] इति गाथार्थः ॥१३/८॥" - पञ्चाश० अभय० टीका ।
[पृ०८०४] “कम्मावयवसमेयं संभाविजति जयं तु तं पूयं । पढम चिय गिहिसंजयमीसोवक्खडाइ मीसं तु ॥१३/९॥ व्या० कर्मेत्याधाकर्म । उपलक्षणं चैतत् । तेनाधाकर्मादिकोद्गमकोटी गृह्यते । सा चेयम्- 'आहाकम्मुद्देसिय चरिमतियं पुई मीसजाए य । बायर पाहुडिया वि य अज्झोयरए य चरिमदुए ॥१॥' अतः कर्मावयवसमेतमुद्गमकाद्यंशसमन्वितम् । संभाव्यते संभवतीत्येवमवसीयते । यकत्तु यत्पुनः भक्तादि । तत् पूति भवतीति । तच्चोपकरणपूति भक्तपानपूति चेति द्विधा । तत्रोपकरणपूति यदाधाकर्मादिना चुल्ली-स्थाली-दादिना संपृक्तम्, इतरत्तु प्रतीतमिति । तथा प्रथमत एवादित एवारभ्य गृहिसंयतयोर्मिश्रं साधारणमुपसंस्कृतं साधितं यत्तत्तथा, तदादिर्यस्य तद् गृहिसंयतमिश्रोपस्कृतादि । आदिशब्दाद् गृहियावदर्थिकमिश्र-गृहिपाखंडिमिश्रग्रहः । मिश्रं तु मिश्रजातं पुनः । इति गाथार्थः ॥९॥
णीयदुवारत्ताए (रन्धयारे) गवक्खकरणाइ पाउकरणं तु । दव्वाइएहिं किणणं साहूणट्ठाएँ कीयं तु ॥१३/११॥ व्या० नीचद्वारं निम्नमुखं सद्यदन्धकारमन्धकारोपेतत्वात्तत्तथा, तत्र नीचद्वारान्धकारे। उपलक्षणत्वादस्य प्रकारान्तरेणाप्यन्धकारवति गृह इति गम्यम् । यद् गवाक्षकरणादि वातायनरचनप्रभृतिकम् । साधवो हि भिक्षामचक्षुर्विषये न गृह्णन्तीति तेषां भिक्षाग्रहणाय प्रकाशार्थम् ।
आदिशब्दाद्दीप-मणिधरणादिपरिग्रहः । प्रादुष्करणं तु प्रादुष्करणं पुनस्तदुच्यते । इदं च द्विविधम्प्रकटकरणप्रकाशकरणभेदात् । तत्राद्यं गवाक्षादिना, द्वितीयं तु दीपादिनेति। तथा द्रव्यादिभिर्द्रव्यभावैः । किणणं ति क्रयणम् । साधूनां यतीनाम् । अर्थाय प्रयोजनाय । यत्तत्। क्रीतं तु पुनरुच्यते । क्रयणक्रीतयोरभेदात् । इदं च स्वपरद्रव्यस्वपरभावभेदाच्चतुर्धा । तत्र स्वद्रव्यं निर्माल्यगन्धगुटिकादि। परद्रव्यं च प्रतीतम् । स्वकीयभावो धर्मकथादिः । परभावश्च स एव अन्येन साधुभक्तेन मंखादिना प्रयुज्यमानः । इति गाथार्थः ॥१३/११॥
पामिच्चं जं साहूणट्ठा उच्छिंदिउं दियावेइ । पल्लट्टिउं च गोरवमाई परियट्टियं भणियं ॥१३/१२॥ व्या० अपमित्यकं तद्यत्साधूनां संयतानाम् अर्थानिमित्तात् । उच्छिद्य अन्यत उद्यतकं गृहीत्वा। दियावेइ त्ति ददातीति । तथा पल्लटिङ ति परिवर्त्य स्वकीयकोद्रवौदनादिसमर्पणेन परकीयशाल्योदनादि गृहीत्वा । च: समुच्चये । गोरवमाइ त्ति साधूनां गौरवम् । विधातुमिति शेषः । आदिशब्दात्स्वस्य लाघवं परिहर्तुम् । यद्ददातीत्यनुवर्तते। तत् परिवर्तितं नाम । भणितमुक्तं जिनैः । इति गाथार्थः ॥१३/१२॥
सग्गामपरग्गामा जमाणिउं आहडं तु तं होइ । छगणाइणोवलित्तं उब्भिंदिय जं तमुब्भिण्णं ॥१३/१३॥ व्या० स्वग्रामपरग्रामादिति समाहारद्वन्द्वः । उपलक्षणत्वाच्चास्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org