________________
तृतीयं परिशिष्टम्- टिप्पनानि
१२३ [पृ०७८५ पं०१२] 'श्रूयते च वज्रान्तं गणितमिति ।' गणितग्रन्थेषु वज्रशब्दो नोपलभ्यते, अतोऽत्र टीकाकृतां वज्रशब्देन किमभिप्रेतमिति न ज्ञायते ।'
[पृ०८०३] ‘अथैतद्विवरणायाह- सच्चित्तं जमचित्तं साहूणट्ठाए कीरए जं च । अचित्तमेव पच्चति आहाकम्मं तयं भणियं ॥१३/७॥ व्या० सचित्तं विद्यमानचैतन्यं सत् फलबीजादि । यदचित्तमचेतनम् । साधूनामर्थाय हेतवे । क्रियते विधीयते । तथा यत् । चशब्दो लक्षणान्तरसमुच्चयार्थः। अचित्तमेवाचेतनमपि सत्तण्डुलादि । पच्यते राध्यते । साधूनामर्थायेति प्रकृतम्। आधाकर्मोक्तनिर्वचनम् । तकत् तत् । भणितमुक्तं जिनादिभिः । यद्यपि सचित्तस्य पृथिव्यादेरचित्तीकरणेन यत् क्रियते गृह-वस्त्रादि, तदपि आधाकर्मोच्यते, तथापीह तन्नोक्तं पिण्डस्यैवाधिकृतत्वात् । इति गाथार्थः ॥१३/७||
उद्देसिय साहुमाई ओमच्चए भिक्खवियरणं जं च । उव्वरीयं मीसेउं तविउ उद्देसियं तं तु ॥१३/८॥ व्या० उद्दिश्य वचनेनोच्चार्य । साध्वादीन् निर्ग्रन्थशाक्यादीन् । अवमात्यये दुर्भिक्षापगमे। उपलक्षणमात्रमेतत्, तेन कालान्तरेऽपि । भिक्षावितरणं प्राभृतिकादानं क्रियते । यत् । तदौदेशिकमिति संबन्धः । इदं पुनरुद्देशमात्रविशेषितत्वेनोद्दिष्टौद्देशिकमुच्यते। इह च यद्यपि भिक्षावितरणमौद्देशिकमित्युक्तम्, तथापि भिक्षातद्वितरणयोरभेदात् भिक्षाप्यौद्देशिकमुच्यते । एवमुत्तरभेदद्वयेऽपीति । उद्देशने च गृहस्थस्येयं प्रक्रिया- जीयामु किह वि ओमे निययं भिक्खा वि ता कइवि देमो । हंदि हु नत्थि अदिन्नं भुंज(भुज)इ अकयं न य फलेइ ॥१॥ [ ] जीयामो त्ति जीविताः स्मः । निययं ति नित्यम् । कइ त्ति पञ्चषाः। सा उ अविसेसिए च्चिय नियंमि भत्तंमि तंडुले बुहइ । पासंडीण गिहीण व जो एही तस्स भिक्खट्ठा ॥१॥ [ ] सा उ त्ति गृहस्थिका। अविसेसिए च्चिय त्ति एते स्वस्मै एते चार्थिभ्य इत्येवमविशिष्येति। एतावतैव चास्य मिश्राद्भेदः । इह च विवक्षितभिक्षासु दत्तासूद्धृतासु वा शेषं कल्पत इति । एतच्च पिण्डनियुक्त्याम् ओघौद्देशिकमुक्तम् । उद्दिष्टौद्देशिकं पुनरेवम्- महईए संखडीए उव्वरियं कूरवञ्जणाईयं । पउरं दद्दूण गिही भणइ इमं देह पुन्नट्ठा ॥१॥ [ ] एतस्य चाकल्पता साध्वाद्यर्थतया व्यवस्थापिते तत्र जीवघातसंभवात् । न चेदमेवं स्थापनान्तर्भावि ‘साहोहासियखीराइठावणे' त्यादिलक्षणत्वात्तस्या इति । आचार्येण चास्य स्थापनायाश्च न महान्विशेष इति विवक्षया ओघौद्देशिकमुद्दिष्टौद्देशिकतयाऽधीतमिति। तथा यच्चोद्वरितं प्रकरणोपयुक्तावशिष्टमोदनादि मिश्रयित्वा संयोज्य दध्यादिना व्यञ्जनेन तस्यैव वितरणं क्रियते तदौद्देशिकं केवलं पर्यायान्तरेण कृतं सद्दीयत इति कृत्वा कृतौदेशिकमिदमुच्यत इति । तथा यच्चेत्यनुवर्तते। तविउं ति अग्नौ तापयित्वा मोदकचूर्णादिगुडादिना मोदकबन्धनादितो यत्तस्यैव वितरणं क्रियते तदौद्देशिकं केवलम् । 'अचित्तमेव पच्चई' इत्येतल्लक्षणेनाधाकर्मणोद्देशतो युक्तमिति कृत्वा कर्मोद्देशिकमिदमुच्यत इति । एवंभूतं च विशेषं विहाय सामान्येनोपसंहरन्नाह- औद्देशिकं तदिति। तुशब्दः स्वगतभेदोपसंग्रहार्थः । भेदाश्चैवम्- उद्दिष्टौदेशिक-कृतौदेशिक-कर्मोद्देशिकानि प्रत्येक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org