________________
१२३
तृतीयं परिशिष्टम्- टिप्पनानि
[पृ०७७५] "सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स । उसभस्स गिहावासे असक्कओ आसि आहारो ॥१६९॥ गमनिका- शेषा तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानम् इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थम्, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहार:- स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाच्चोदकमुपनीतवन्त इति गाथार्थः ॥१६९॥" - आव० हारि० ।
[पृ०७७६] “एगेण चेव तवओ पूरिजइ पूअएण जो ताओ । बीओ वि स पुण कप्पड़ निव्विगइअ लेवडो नवरं ॥३७७॥ व्या० एकेनैव तवकः पूर्यते पूपकेन यत् तत: पूपकाद् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥३७७॥" - पञ्चवस्तुकटीका।
[पृ०७७९] “ननु यदि साधुराधाकर्म न करोति न कारयति नानुमोदते तस्य को दोषः ? इति चेदाह- कामं सयं न कुव्वइ जाणतो पुण तहावि तग्गाही । वड्ढेइ तप्पसंग अगिण्हमाणो उ वारेइ ॥१११॥ कामं सम्मतमेतत्, यद्यपि स्वयं न करोति उपलक्षणत्वान्न कारयति नानुमोदते, तथापि पुनर्जानन् तद्ग्राही आधाकर्मग्राही तत्प्रसङ्गमाधाकर्मग्रहणप्रसङ्गं वर्धयति, यथाऽन्ये साधवो जानन्ति यदनेन साधुना जानताप्याधाकर्म आददे ततो न कोऽपीति(पि) दोष इति प्रसङ्गः, तुः पुनरगृह्णन् प्रसङ्ग निवारयति ॥१११॥" - पिण्डनियुक्ति० क्षमारत्न० ॥
“सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी अ । छसु पढमा ओयरइ कीयतियम्मी विसोही उ ॥२४१॥ व्या० सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते- उद्गमकोटी विशोधिकोटी च, तत्र षट्सु हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणक्रापणानुमतिरूपे विशोधिस्तु विशोधिकोटी द्वितीयेति गाथार्थः ॥"- दशवै० हारि०॥
[पृ०७८०] “सम्प्रति वैमानिकदेवीनां जघन्योत्कृष्टस्थितिप्रतिपादनार्थमाह- सपरिग्गहेयराणं सोहम्मीसाण पलिय साहीयं । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥१७॥ व्या० इह वैमानिकदेवीनामुत्पत्तिः सौधर्मकल्पे ईशानकल्पे च । ताश्च द्विधा परिगृहीता अपरिगृहीताश्च । परिगृहीताः कुलभार्याकल्पाः, अपरिगृहीता गणिकासमानाः । तत्र सपरिग्रहाणां परिगृहीतानामितरासामपरिगृहीतानां जघन्या स्थितिः सौधर्मे कल्पे ईशाने कल्पे च यथासङ्ख्यं पल्यं पल्योपमं साधिकं च । किमुक्तं भवति ? सौधर्मे कल्पे परिगृहीतानामपरिगृहीतानां च देवीनां जघन्यमायुः पल्योपमम्, ईशाने कल्पे परिगृहीतानामपरिगृहीतानां च देवीनां साधिकं पल्योपममिति। तथा सौधर्मे कल्पे परिगृहीतानामपरिगृहीतानां चोत्कृष्टमायुर्यथाक्रमं सप्त पञ्चाशच्च पल्योपमानि, ईशाने कल्पे परिगृहीतानामपरिगृहीतानां च नव पञ्चपञ्चाशच्च, इयमत्र भावना- सौधर्मे कल्पे परिगृहीतानामुत्कृष्टमायुः सप्त पल्योपमानि, अपरिगृहीतानां पञ्चाशत्पल्योपमानि, ईशाने कल्पे परिगृहीतानामुत्कृष्टमायुः नव पल्योपमानि, अपरिगृहीतानां पञ्चपञ्चाशदिति ॥१७॥" - बृहत्संग्रहणी० मलय० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org