________________
तृतीयं परिशिष्टम्- टिप्पनानि
१२१ वेदितव्यः, नवरमेतस्य राजधानी मेरोदक्षिणपूर्वस्यामपरस्मिन् जम्बूद्वीपे । तृतीयः सुहस्तिनामा दिग्घस्तिकूटः, स च मन्दरपर्वतस्य दक्षिणपूर्वस्यां शीतोदाया महानद्याः पूर्वतः, तस्याधिपतिः सुहस्तिनामा देवः, सोऽपि पद्मोत्तर इव महर्द्धिकः, अस्यापि राजधानी मेरोर्दक्षिणपूर्वतोऽपरस्मिन् जम्बूद्वीपे । चतुर्थो दिग्घस्तिकूटोऽञ्जनगिरिः, स च मेरोदक्षिणापरस्यां दिशि शीतोदाया महानद्या अपरतः तस्याधिपतिरञ्जननामा देवः, सोऽपि पद्मोत्तरदेव इव महाविभूतिसंपन्नः, तस्य राजधानी मेरोरपरदक्षिणतोऽपरस्मिन् जम्बूद्वीपे । पञ्चमः कुमुदनामा दिग्घस्तिकूटः, सोऽपि मेरोदक्षिणापरस्यां दिशि पश्चिमाभिमुखं गच्छन्त्याः शीतोदाया दक्षिणतः, तस्याधिपतिः कुमुदनामा देवः, सोऽपि पद्मोत्तर इव महर्द्धिकः, राजधानी तस्यापि मेरोदक्षिणापरतोऽपरस्मिन् जम्बूद्वीपे । षष्ठः पलाशनामा दिग्घस्तिकूटः, स च मेरोरुत्तरापरस्यां दिशि पश्चिमाभिमुखं गच्छन्त्याः शीतोदाया उत्तरतः, तस्याधिपतिः पलाशनामा देवः, सोऽपि पद्मोत्तरदेववन्महर्द्धिकः, तस्य राजधानी मेरोरपरोत्तरतोऽपरस्मिन् जम्बूद्वीपे । सप्तमोऽवतंसकनामा दिग्घस्तिकूटः, सोऽपि मन्दरपर्वतस्योत्तरापरदिशि शीताया महानद्या अपरतः, तस्याधिपतिरवतंसकनामा देवः, राजधानी तस्यापि मेरोरुत्तरापरतोऽपरस्मिन् जम्बूद्वीपे । अष्टमो रोचनगिरिनामा दिग्घस्तिकूटः, स च मन्दरपर्वतस्योत्तरपूर्वस्यां दक्षिणाभिमुखं गच्छन्त्याः शीताया महानद्याः पूर्वतः, तस्याधिपतिर्देवो रोचनगिरिनामा, सोऽपि पद्मोत्तरदेव इव महर्द्धिकः, राजधानी तस्य मेरोरुत्तरपूर्वतोऽपरस्मिन् जम्बूद्वीपे ॥३२५-३२६॥"- बृहत्क्षेत्र० मलय०।
[पृ०७६०] “अथ कस्मिन्समये को योगः समुद्घातकाले भवतीत्याह- औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥२७६॥ टीका- प्रथमेऽष्टमे च समये औदारिक एव योगो भवति शरीरस्थत्वात् । कपाटोपसंहरणे सप्तमः । मन्थसंहरणे षष्ठः । कपाटकरणे द्वितीयः । एतेषु त्रिष्वपि समयेषु कार्मणव्यतिमिश्र औदारिकयोगो भवति ।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७७।। मन्थान्तरपूरणसमयश्चतुर्थः । मन्थान्तरसंहरणसमयः पञ्चमः । मन्थानकरणसमयस्तृतीयः । समयत्रयेऽप्यस्मिन् कार्मणशरीरयोगः । तत्र च नियमेनैव जीवो भवत्यनाहारकः ॥२७६-२७७॥" - प्रशम० ।
[पृ०७६२] “सम्प्रत्येषामेव पिशाचादिनिकायानां चिह्नान्याह- चिंधाई कलंब ज्झए सुलसवडे तहय होइ खटुंगे । असोय चंपए वि य नागे तह तुंबरू चेव ॥६१॥ व्या० क्रमेणामूनि पिशाचादीनां चिह्नानि, तद्यथा- पिशाचानां ध्वजे कदम्बः कदम्बवृक्षचिह्नम् । भूतानां सुलसो वनस्पतिविशेषः । यक्षाणां वटवृक्षः । राक्षसानां खट्वाङ्गः । किन्नराणामशोकवृक्षः। किंपुरुषाणां चम्पकतरुः । महोरगाणां नागवृक्षः । गन्धर्वाणां तुम्बरुनामा तरुरिति ॥६१॥"- बृहत्सं० मलय०।
[पृ० ७६६] “साम्प्रतं मितं व्याख्यानयति- अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भागे । वाऊपरियारणट्ठा छन्भायं ऊणयं कुज्जा ॥६५०।। इह किल सर्वमुदरं षड्भिर्भागैर्विभज्यते, तत्र चार्ट्स भागत्रयरूपमशनस्य सव्यञ्जनस्य, तत्र शाकादिसहितस्याधारं कुर्यात्, तथा द्वौ भागौ द्रवस्यपानीयस्य, षष्ठं तु भागं वायुप्रविचारणार्थम् ऊनं कुर्यात् ॥६५०॥" - पिण्डनि० क्षमारत्न० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org