________________
१२०
तृतीयं परिशिष्टम्- टिप्पनानि
अर्धतृतीयान्यर्धतृतीयानि योननशतानि दीर्घाः, अर्धतृतीयान्यर्धतृतीयानि योजनशतानि विस्तीर्णाः । तथा प्रत्येकं चतुर्वापीपरिक्षिप्ताः चतसृभिश्चतसृभिर्वापीभिः समन्ततः परिक्षिप्ताः ॥३२२॥
ईसाणस्सुत्तरिया, पासाया दाहिणा य सक्कस्स । अट्ठदिसि हत्थिकूडा, सीयासीओयाउभयकूले ॥३२४॥ व्या० उत्तरीयौ उत्तरपूर्वोत्तरापरदिग्भाविनौ प्रासादावीशानस्य ईशानदेवलोकाधिपतेराभजतः, अत एव तयोः प्रासादयोर्मध्ये प्रत्येकमीशानदेवलोकाधिपतेर्योग्यं सपरिवार सिंहासनम् । दाक्षिणात्यौ दक्षिणपूर्वापरदक्षिणदिग्भाविनौ प्रासादौ शक्रस्य सौधर्मदेवलोकाधिपतेः, अत एव तयोर्मध्ये प्रत्येकं शक्रेन्द्रयोग्यं सपरिवारं सिंहासनम्॥
सम्प्रति दिग्गजकूटवक्तव्यतामाह- अष्टौ दिग्रहस्तिकूटाः, ते च शीताशीतोदयोरुभयकूले प्रासादसिद्धायतनानामपान्तराले वेदितव्याः ॥३२४॥
एतदेव वक्तव्यतामा(व्यक्ततया)ह- दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा। पउमोत्तरोऽत्थ पढमो, सीयापुव्वुत्तरे कूले ॥३२५।। तत्तो य नीलवंतो, सुहत्थि तह अंजणागिरी कुमुए । तह य पलास वडिंसे, अट्ठमए रोयणगिरी य ॥३२६।। व्या० मन्दरस्य मेरोश्चतसृषु दिक्षु विदिग्रूपासु द्वौ द्वौ दिगृहस्तिकूटौ, ततः सर्वसङ्ख्ययाऽष्टौ भवन्ति, ते च हिमवत्कूटसमकल्पाः हिमवत्कूटसदृशस्थितयः । किमुक्तं भवति ? यादृशी स्थितिर्हिमवत्कूटेषु प्रागभिहिता प्रमाणादिविषया तादृश्येतेषामपि द्रष्टव्या । तद्यथा- एते सर्वेऽपि कूटाः प्रत्येकं पञ्चपञ्चयोजनशतान्युच्चस्त्वेन, पञ्चविंशं पञ्चविंशं योजनशतमवगाहेन, मूले पञ्चपञ्चयोजनशतान्यायामविष्कम्भाभ्याम्, मध्ये त्रीणि त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि ३७५, उपर्यर्धतृतीयान्यर्धतृतीयानि योजनशतानि २५०, मूले प्रत्येकमेतेषां परिधिः पञ्चदश योजनशतानि एकाशीत्यधिकानि १५८१, मध्ये एकादश योजनशतानि षडशीत्यधिकानि किञ्चिदूनानि ११८६, उपरि सप्त शतानि एकनवत्यधिकानि किञ्चिद्भूनानि ७९१, मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका गोपुच्छसंस्थानसंस्थिताः सर्वरत्नमयाः प्रत्येकमेकैकया पद्मवरवेदिकया एकैकेन च वनखण्डेन परिक्षिप्ताः । एकैकस्य च दिग्घस्तिकूटस्योपरि बहुमध्यदेशभागे एकैकः प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं सार्धानि द्वाषष्टियोजनान्यायामविष्कम्भाभ्याम्, सक्रोशान्येकत्रिंशद्योजनान्युच्चस्त्वेन सर्वरत्नमया नानामणिमयस्तम्भशतसन्निविष्टाः । तेषु मध्ये स्वस्वाधिपतिदेवयोग्य सपरिवारं सिंहासनम् । सम्प्रत्यमीषां दिग्घस्तिकूटानां नामान्याह-पउमोत्तर इत्यादि, अत्र एतेषु दिग्घस्तिकूटेषु मध्ये प्रथमो दिग्घस्तिकूटः पद्मोत्तरनामा, स च मन्दरपर्वतस्योत्तरपूर्वस्यां दिशि पूर्वाभिमुखं गच्छन्त्याः शीताया महानद्या उत्तरतः तस्याधिपतिः पद्मोत्तरनामा देवः स पल्योपमस्थितिको विजयदेव इव महर्द्धिकः, तस्य राजधानी मेरोरुत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्यातान् द्वीपसमुद्रानतिक्रम्यापरस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राण्यवगाह्य परतो यथास्थानं वेदितव्या। ततस्तदनन्तरं प्रदक्षिणाक्रमेण द्वितीयो नीलवन्नामा दिग्घस्तिकूटः, स च मेरोदक्षिणपूर्वस्यां पूर्वाभिमुखं गच्छन्त्याः शीताया महानद्या दक्षिणतः, तस्याधिपतिर्नीलवन्नामा देवः, स च पद्मोत्तर इव महर्द्धिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org