SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्- टिप्पनानि जाम्बूनदमयाः। मूले विस्तीर्णा इत्युपलक्षणम्, तेन दीर्घा इत्यपि द्रष्टव्यम्, समवृत्तत्वात्तेषामिति॥१९३।। सम्प्रति धातकीवृक्षवक्तव्यतामतिदेशेनाह- जो भणिओ जंबूए, विही उ सो चेव होइ एएसिं। देवकुराए संवलिरुक्खा जह जंबूदीवम्मि ॥३॥५५॥ व्या० य एव जम्बूद्वीपे जम्ब्वा वृक्षस्य पीठादिगतो विधिर्भणितः स एवैतयोरपि धातकीमहाधातकीनाम्नोवृक्षयोरविशेषेण ज्ञातव्यः । तथा पूर्वार्धेऽपरार्धे च प्रत्येकं देवकुरुषु पृथक् निषधवर्षधरसमीपे एकैकः शाल्मलीवृक्षः, तावपि जम्बूद्वीपगतशाल्मलीवृक्षवदविशेषेण प्रतिपत्तव्यौ ॥३॥५५॥" - बृहत्क्षेत्र० मलय० । __ [पृ०७५३] “सम्प्रति भद्रशालवने सिद्धायतनादिवक्तव्यतामाह- मेरूओ पन्नासं, दिसि विदिसि गंतु भद्दसालवणे । चउरो सिद्धाययणा,दिसासु विदिसासु पासाया ॥३२१॥ व्या० मेरोरारभ्य चतसृषु दिक्षु चतसृषु विदिक्षु च] प्रत्येकं भद्रशालवनं पञ्चाशत्पञ्चाशद्योजनान्यवगाह्यात्रान्तरे चतुसृषु दिक्षु प्रत्येकमेकैकसिद्धायतनभावेन चत्वारि सिद्धायतनानि, चतसृषु विदिक्षु [च] प्रत्येकमेकैकप्रासादभावेन चत्वारः प्रासादाः । इयमत्र भावना- मेरोरुत्तरपूर्वत उत्तरकुरुमध्ये शीताया महानद्या उत्तरदिग्भागे पञ्चाशद्योजनेभ्यः परः प्रासादः, मेरोः पूर्वस्यां दिशि शीताया महानद्याः पञ्चाशद्योजनेभ्यः परं सिद्धायतनम्, मेरोर्दक्षिणपूर्वस्यां पञ्चाशद्योजनान्यवगाह्यात्रान्तरे देवकुरूणां बहि: शीताया महानद्या दक्षिणत एव प्रासादः, मेरोदक्षिणतो देवकुरूणां मध्ये शीतोदाया महानद्याः पूर्वतो मेरुमधिकृत्य पञ्चाशद्योजनातिक्रमेण सिद्धायतनम्, मेरोरपरदक्षिणतः पञ्चाशद्योजनान्यवगाह्य देवकुरूणां मध्ये शीतोदाया महानद्या दक्षिणतः प्रासादः, मेरोः पश्चिमायां दिशि पञ्चाशद्योजनान्यतिवाह्य शीतोदाया महानद्या दक्षिणतः सिद्धायतनम्, मेरोरपरोत्तरस्यां दिशि पञ्चाशद्योजनान्यवगाह्यात्रान्तरे उत्तरकुरूणां बहिः शीतोदाया महानद्या उत्तरत एव प्रासादः, मेरोरुत्तरत उत्तरकुरूणां मध्ये शीताया महानद्याः पश्चिमतो मेरुमधिकृत्य पञ्चाशद्योजनातिक्रमे सिद्धायतनम् ॥३२१॥ सम्प्रति सिद्धायतनादीनामुच्चत्वादिमानमाह- छत्तीसुच्चा पणुवीसवित्थडा दुगुणमाययाऽऽययणे। चउवाविपरिक्खित्ता, पासाया पंचसयमुच्चा ॥३२२॥ व्या० सर्वाण्यपि सिद्धायतनानि प्रत्येकं षट्त्रिंशद्योजनान्युच्चानि, पञ्चविंशतियोजनानि विस्तृतानि, द्विगुणमायतानि पञ्चाशद्योजनान्यायतानीत्यर्थः, तानि च सर्वाण्यपि अनेकमणिमयस्तम्भशतसन्निविष्टानि, एकैकस्य च सिद्धायतनस्य पूर्वोत्तरदक्षिणरूपासु तिसृषु दिक्षु प्रत्येकमेकैकद्वारभावेन त्रीणि त्रीणि द्वाराणि, तानि च द्वाराणि प्रत्येकमष्टावष्टौ योजनान्युच्चानि, चत्वारि चत्वारि योजनानि विष्कम्भतः। एकैकस्य च सिद्धायतनस्य बहुमध्यदेशभागे महत्येकैका मणिमयी पीठिका, ताश्च मणिपीठिकाः प्रत्येकमष्टावष्टौ योजनान्यायामविष्कम्भाभ्याम्, चत्वारि चत्वारि योजनानि बाहल्यतः, तासां च मणिपीठिकानामुपरि प्रत्येकमेकैको देवछन्दकः, ते च प्रत्येकमष्टावष्टौ योजनान्यायामविष्कम्भाभ्याम्, सातिरेकाण्यष्टावष्टौ योजनान्युच्चस्त्वेन, एकैकस्मिंश्च देवछन्दकेऽष्टोत्तरमष्टोत्तरं शतं जिनप्रतिमानाम्, ताश्च जिनप्रतिमाः प्रमाणतो वर्णतश्च प्राग्व्यावर्णितसिद्धायतनवद् द्रष्टव्याः । ये तु प्रासादास्ते प्रत्येकं पञ्च पञ्च योजनशतान्युच्चाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy