________________
तृतीयं परिशिष्टम् - टिप्पनानि
क्रोशप्रमाणानि । उपलक्षणमेतत् [तेन] क्रोशार्धं विस्तृतानि, देशोनं क्रोशमुच्छ्रितानि, विविधरत्नमयतया परमरम्याणि । तथा तस्या जम्ब्वा द्वादश नामधेयानि तद्यथा - सुदर्शना १, अमोघा २, सुप्रबुद्धा ३, यशोधरा ४, भद्रा ५, विशाला ६, सुजाता ७, सुमनाः ८, विदेहजम्बूः ९, सौमनसा १०, नियता ११, नित्यमण्डिता १२। उक्तं च- 'सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३ जसोधरा ४ । भद्दा ५ य विसाला ६ य, सुजाया ७ सुमणा ८ वि य || १ || विदेहजंबू ९ सोमणसा १०, नियया ११ निच्चमंडिया १५ । सुंदसणाए जंबूए, नाम विज्ज दुवालस ॥२॥” [ ], तस्या अधिपतिरनादृतनामा देवः, स च पल्योपमस्थितिकश्चतुर्णामिन्द्रसामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामारक्षकदेवसहस्राणामन्येषां चानादृताभिधानराजधानीवास्तव्यानां बहूनां वानमन्तराणां देवानां देवीनां च स्वामी । सा चानादृतस्य देवस्य संबन्धिनी राजधानी अनादृताऽभिधाना मेरोरुत्तरतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रानतिक्रम्यापरस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रेभ्यः परतो यथास्थानमवसेया । देवकुरवोऽपि शीतोदया महानद्या द्विधा विभक्ताः, तद्यथा- एकं पूर्वार्धमपरमपरार्धम्, तत्र यत् शीतोदायाः पूर्वस्मिन् भागे तत्पूर्वार्धमपरदिग्भागेऽपरार्धम् । तत्रापरार्धबहुमध्यदेशभागे शाल्मली नाम वृक्षः, स च जम्बूवृक्षवदविशेषेण वक्तव्यः, नवरमत्र शाल्मलीपीठं कूटानि च रजतमयानि, तस्य शाल्मलीवृक्षस्याधिपतिर्गरुडवेगो नाम देवः, तस्य च राजधानी मेरोर्दक्षिणतः, शेषं तथैव ॥ २९९ ॥
११८
एतदेवाह - देवकुरुपच्छिमद्धे, गरुडावासस्स सामलिदुमस्स । एसेव कमो नवरं, पेढं कूडा य रययमया ॥ ३००॥ व्या० देवकुरूणां पश्चिमेऽर्धे गरुडावासस्य गरुडवेगनाम्नो देवस्यावासभूतस्य शाल्मलीद्रुमस्य एष एवानन्तरोदितो जम्बूवृक्षविषयः क्रमो वेदितव्यः । नवरं शाल्मलीवृक्षस्य पीठं कूटानि प्रासादभवनापान्तरालवर्तीनि रजतमयानि । अपि चायं शाल्मलीवृक्षो यदा तदा वा सुवर्णकुमाराधिपतिवेणुदेववेणुदालिक्रीडास्थानम्, तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षस्य वक्तव्यताऽवसरे- 'तत्थ वेणुदेवे वेणुदाली य वसई' तयोर्हि तत् क्रीडास्थानमिति ॥३००||” बृहत्क्षेत्र० मलय० ।
[पृ०७५२] “सम्प्रति वृषभकूटवक्तव्यतामाह- सव्वेऽवि उसभकूडा, उव्विद्धा अट्ठ जोयणा होंति । बारस अट्ठ य चउरो, मूले मज्झुवरि वित्थिन्ना || १९३ ।। व्या० सर्वेऽपि भरतैरावतविजयभाविनश्चतुस्त्रिंशत्सङ्ख्याः, तथाहि एको वृषभकूटो भरतक्षेत्रे, स च गङ्गाकुण्डस्य पश्चिमदिशि सिन्धुकुण्डस्य पूर्वतः क्षुल्लहिमवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे । द्वितीय ऐरावतक्षेत्रे शिखरिणो वर्षधरस्योत्तराहे नितम्बे रक्तारक्तवतीकुण्डयोर्मध्यभागे । द्वात्रिंशद् द्वात्रिंशत्सङ्ख्येषु विजयेषु । सर्वेऽपि सर्वसङ्ख्यया जम्बूद्वीपे चतुस्त्रिंशद्वृषभकूटा भवन्ति, ते च प्रत्येकमष्टौ योजनानि उद्विद्धाः उच्चाः, द्वे योजने भूमाववगाढाः, तथा मूले द्वादशयोजनानि आयामविष्कम्भाभ्याम्, मध्येऽष्टौ, उपरि चत्वारि, मूले विस्तीर्णाः, मध्ये संक्षिप्ताः उपरि तनुकाः, अत एव गोपुच्छसंस्थानसंस्थिताः सर्वेऽपि च
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org