SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ११७ तृतीयं परिशिष्टम्- टिप्पनानि तस्य च सिद्धायतनस्य मध्ये महत्येका मणिमयी पीठिका, सा च पञ्च धनुःशतानि आयामविष्कम्भाभ्याम्, अर्धतृतीयानि धनुःशतानि बाहल्यतः, तस्याश्च मणिपीठिकाया उपरि महानेकः सर्वरत्नमयो देवच्छन्दकः, स च पञ्चधनुःशतायामविष्कम्भः, सातिरेकपञ्चधनु:शतप्रमाणोच्चस्त्वः, तत्र पञ्चधनुःशतप्रमाणानां जिनप्रतिमानामष्टाधिकं शतम्, जिनप्रतिमावर्णकः समस्तोऽपि कूटगतसिद्धायतनवद्वेदितव्यः ॥ ___सा जम्बूरनन्तरव्यावर्णितस्वरूपाऽन्येन जम्बूनामष्टशतेनाष्टाधिकेन शतेन, ततस्तस्या मूलभूताया जम्ब्वा अपेक्षया अर्धप्रमाणमात्रेण यत्प्रमाणं मूलजम्ब्वा उक्तमादित आरभ्य तदपेक्षयाऽर्धप्रमाणेन, तथाहि- ता अष्टाधिकशतसङ्ख्या जम्ब्वः प्रत्येकं चत्वारि योजनान्युच्चस्त्वेन क्रोशमेकमवगाहेन, एकं योजनमुच्चः स्कन्धः, त्रीणि योजनानि विडिमा, सर्वाग्रेणोच्चस्त्वेन चत्वारि योजनानि, विष्कम्भतोऽपि चत्वारि योजनानि, तत्रैकैका शाखाऽर्धगव्यूतहीने द्वे द्वे योजने दीर्घा, क्रोशपृथुत्वः स्कन्धः इति भवन्ति सर्वसङ्ख्यया विष्कम्भतश्चत्वारि योजनानि । ताश्च जम्ब्वः सर्वा अपि प्रत्येकं षड्भिः षड्भिः पद्मवरवेदिकाभिः परिक्षिप्ताः एवंभूतेनार्धप्रमाणेन जम्बूनामष्टशतेन परिवारिता विराजन्ते । तासां चाष्टाधिकशतसङ्ख्यानां जम्बूनां वर्णविभागो मूलजम्ब्वा इव द्रष्टव्यः, यथा- वज्ररत्नमयानि मूलानि, रिष्टरत्नमयः कन्द इत्यादि ॥२८९-२९०॥ ___ जंबूओ पन्नासं, दिसि विदिसि गंतु पढमवणसंडे । चउरो दिसासु भवणा, विदिसासु य होंति पासाया ॥२९३॥ व्या० प्रथमे वनखण्डे दिक्षु विदिक्षु च प्रत्येकं सपरिवाराया जम्बूतः पञ्चाशत्पञ्चाशद्योजनानि गत्वाऽत्रान्तरे चतसृषु पूर्वादिषु प्रत्येकमेकैकभवनभावेन चत्वारि भवनानि, चतसृषु विदिक्षु प्रत्येकमेकैकप्रासादभावेन चत्वारः प्रासादाः प्रासादावतंसकाः ॥२९३॥ __ भवनानां प्रासादावतंसकानां च प्रमाणमाह- कोसपमाणा भवणा, चउवाविपरिग्गया य पासाया । कोसद्धवित्थडा कोसमूसियाणाढियसुरस्स ॥२९४॥ व्या० क्रोशप्रमाणानि भवनानि दीर्घत्वेन, विष्कम्भतः क्रोशार्धम्, उच्चस्त्वेन देशोनक्रोशमित्युपलक्षणव्याख्यानादवसेयम् । तथा विदिक्षु ये वर्तन्ते प्रासादास्ते प्रत्येकं चतुर्वापीपरिगताः प्रत्येकं च क्रोशार्धं विस्तृताः, देशोनं क्रोशमुच्छ्रिताः, क्रोशमायताः । एतानि भवनानि प्रासादावतंसकाश्चानादृताभिधानस्य देवस्य संबन्धिनो वेदितव्याः ॥२९४।। सम्प्रति वापीनामुद्वेधादिप्रमाणमाह- पंचेव धणुसयाई, उव्वेहेणं हवंति वावीओ । कोसद्धवित्थडाओ, कोसायामाओ सव्वाओ ॥२९५।। सर्वा अपि वाप्य उद्वेधेन पञ्च धनुःशतानि भवन्ति, तथा क्रोशार्धं विस्तृताः, क्रोशमायामतः ॥२९५।। सम्प्रति तेषां परिमाणमाह- अट्ठसहकूडसरिसा, सव्वे जंबूनयामया भणिया । तेसुवरिं जिणभवणा, कोसपमाणा परमरम्मा ॥२९९॥ व्या० प्रासादभवनापान्तरालभाविनः सर्वसङ्ख्ययाऽष्टौ कूटाः, ते च सर्वेऽपि जाम्बूनदमया वृषभकूटसदृशा वृषभकूटवत्परिमाणतो भणिताः, तेषां च कूटानामुपरि जिनभवनानि प्रत्येकमेकैकं तेषामुपरि जिनभवनमित्यर्थः, तानि च जिनभवनानि दीर्घत्वेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy