SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ११६ तृतीयं परिशिष्टम्- टिप्पनानि पि सालो, पुव्विल्ले तत्थ सालम्मि ॥२८७॥ भवणं कोसपमाणं, सयणिज्जं तत्थऽणाढियसुरस्स। तिसु पासाया सेसेसु, तेसु सीहासणा रम्मा ॥२८८॥ व्या० तस्या जम्ब्वाः पुष्पाणि फलानि च रत्नमयानि नानारत्नात्मकानि, तस्याः सशाखाकाया जम्ब्वाः पृथुत्वमष्टौ योजनानि, अष्टावेव योजनान्युच्चत्वम्, क्रोशद्विकमुद्वेधः भूतलमध्ये प्रवेशः, अत एव सर्वाग्रेण सा जम्बूः सातिरेकाण्यष्टौ योजनान्युच्चस्त्वेन भवति । तथा तस्या जम्ब्वाः स्कन्धः कन्दादुपरितनः शाखाप्रभवपर्यन्तो विभागो द्वे योजने उद्विद्ध उच्चः, द्वौ क्रौशौ विस्तीर्णः, या तु दिक्प्रसृतशाखामध्यभागप्रभवा ऊर्ध्वं गता शाखा विडिमापरपर्याया सा षड् योजनान्युच्चस्त्वेन, अत एव कन्दादारभ्य सर्वाग्रेण सा जम्बूरष्टौ योजनान्युच्चस्त्वेन प्रागुक्ता, स्कन्धगताभ्यां द्वाभ्यां योजनाभ्यां विडिमागतैः षड्भिर्योजनैर्योजनाष्टकभावात् । तस्याश्च जम्ब्वाश्चतसृष्वपि दिक्षु शाखाः, किमुक्तं भवति ? चतसृषु पूर्वादिषु दिक्षु प्रत्येकमेकैका शाखा, ताश्च शाखाः प्रत्येकं क्रोशोनानि चत्वारि योजनानि दीर्घाः, तथाहि- तस्या जम्ब्वा विष्कम्भोऽष्टौ योजनानि, तत्र स्कन्धगतस्योपरितनभागस्य द्वौ क्रोशौ, तत एकैकस्याः शाखायाः पृथुत्वं क्रोशोनानि चत्वारि योजनानि भवति । तत्र तासु चतसृषु शाखासु मध्ये पूर्वस्यां शाखायां बहुमध्यदेशभागेऽनादृतस्यानादृताभिधानस्य देवस्य योग्यं महदेकं भवनं भवति, तच्च सर्वरत्नमयम् अनेकमणिमयस्तम्भशतसन्निविष्टम्, क्रोशप्रमाणमायामतः, विष्कम्भतोऽर्धक्रोशम्, देशोनं क्रोशमुच्चस्त्वेन, तस्य च भवनस्य त्रीणि द्वाराणि, तद्यथा- एकं द्वारं पूर्वस्यामेकमुत्तरत एकं दक्षिणतः, तानि च द्वाराणि प्रत्येकं पञ्च धनुःशतान्युच्चस्त्वेन, अर्धतृतीयानि धनुःशतानि विष्कम्भतः । तत्र च भवने बहुमध्यदेशभागे महत्येका मणिमयी पीठिका, सा च पञ्चधनुःशतायामविष्कम्भा अर्धतृतीयधनु:शतबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं शयनीयम्, शेषासु च तिसृषु शाखासु प्रासादाः प्रासादावतंसका एकैकस्यां शाखायामेकैकः प्रासादावतंसक इत्यर्थः, तेऽपि च प्रासादावतंसकाः सर्वरत्नमयाः, तेषु च प्रासादेषु मध्ये सिंहासनानि रम्याणि नानामणिमयतया रमणीयानि, किमुक्तं भवति ? एकैकस्य प्रासादावतंसकस्य मध्ये पञ्चधनुःशतायामविष्कम्भाऽर्धतृतीयधनुःशतबाहल्या मणिमयपीठिका, तासां च मणिपीठिकानामुपरि प्रत्येकमनादृतदेवयोग्यं सर्वरत्नमयं सिंहासनमिति ॥२८६-२८८॥ सम्प्रति प्रासादानां परिमाणमाह- ते पासाया कोसं, समूसिया कोसमद्धवित्थिन्ना । विडिमोवरि जिणभवणं, कोसद्ध होइ वित्थिनं ॥२८९॥ देसूणकोसमुच्चं, जंबू अट्ठस्सएण जंबूणं । परिवारिया विरायइ, तत्तो अद्धप्पमाणेणं ॥२९०॥ व्या० तेऽनन्तरोदिताः प्रासादाः क्रोशमेकं देशोनमिति शेषः समुच्छ्रिता उच्चाः, क्रोशमर्धमर्धक्रोशं विस्तीर्णाः, परिपूर्णमेकं क्रोशं दीर्घाः। तथा विडिमा दिक्प्रसृतशाखामध्यभागविनिर्गता ऊर्ध्वशाखा तस्या उपरि बहुमध्यदेशभागे महदेकं जिनभवनं सिद्धायतनम्, तच्च क्रोशमेकमायामतः, अर्धक्रोशं भवति विस्तीर्णम्, देशोनं क्रोशमेकमुच्चम्, नानामणिस्तम्भशतसंनिविष्टम्, तस्य च त्रीणि द्वाराणि, तानि च प्रागनन्तरव्यावर्णितभवनस्येव वेदितव्यानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy