________________
तृतीयं परिशिष्टम्- टिप्पनानि
११५ अथास्य प्रत्यङ्गलक्षणसमासः । - तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टवणान्तर्गर्भशल्योद्धरणार्थम्, यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च ॥१॥ शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् ॥२॥ कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् ॥३।। भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् ॥४॥ कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् ॥५॥ अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च ॥६॥ रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च ॥७॥ वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थं च ॥८॥” इति सुश्रुतसंहितायां प्रथमेऽध्याये । “शालाक्यं कायचिकित्सा भूततन्त्रं शल्यमगदतन्त्रं रसायनतन्त्रं बालरक्षा बीजवर्धनमिति आयुर्वेदस्य अष्टाङ्गानि" -कसायपाहुड जयधवलाटीका, भाग १, पृ.१४७ ॥
[पृ०७४० पं०३] “पत्तो पोयणपुरं तहिं च संख-वीर-सिवभद्दपमुहा नरिंदा दिक्खा गाहिया" - महावीरचरियं पृ० ३३७ ॥
[पृ०७४४ पं०५] “प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमऽर्थान्तरं निरर्थकमऽविज्ञातार्थमऽपार्थकमऽप्राप्तकालं न्यूनमऽधिकं पुनरुक्तमऽननुभाषणमऽज्ञानमऽप्रतिभाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥१॥ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥२॥ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥३॥ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥४॥ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥५॥ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥६॥ प्रकृतादादप्रतिसंबद्धार्थमर्थान्तरम् ॥७॥ वर्णक्रमनिर्देशवद् निरर्थकम् ।।८।। परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥९॥ पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् ॥१०॥ अवयवविपर्यासवचनमप्राप्तकालम् ॥११॥ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥१२॥ हेतूदाहरणाधिकमधिकम् ॥१३॥ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥१४।। अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ।।१५।। विज्ञातस्य परिषदा त्रिरभिहितस्याप्यऽप्रत्युच्चारणमननुभाषणम् ॥१६॥ अविज्ञातं चाऽज्ञानम् ॥१७॥ उत्तरस्याप्रतिपत्तिरप्रतिभा ॥१८॥ कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥१९॥ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥२०॥ निग्रहस्थानप्राप्तस्याऽनिग्रहः पर्यनुयोज्योपेक्षणम् ॥२१॥ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥२२॥ सिद्धान्तमभ्युपेत्याऽनियमात् कथाप्रसङ्गोऽपसिद्धान्तः ॥२३॥ हेत्वाभासाच्च यथोक्ताः ॥२४॥" - इति न्यायभाष्ये ५।२ ।।
[पृ०७४८] “रयणमया पुप्फफला विक्खंभो अट्ठ अट्ठ उच्चत्तं । कोसदुगं उव्वेहो खंधो दो जोयणुविद्धिो ॥२८६॥ दो कोसे वित्थिन्नो, विडिमा छ जोयणाणि जंबूए । चाउद्दिसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org