________________
११४
तृतीयं परिशिष्टम्- टिप्पनानि ततश्चोद्विग्नस्तस्मादपि स्थानान्निर्गतोऽन्यं द्वीपं तत्रापि वल्गुल्यादिदूषितानि फलानि भुक्तवानेव यत्र यत्र याति तत्र तत्र दुःखभाक् । एवंविधश्च परभवेऽपि हीनजात्यादित्वेनोत्पद्यते इति न युक्तो जातिमदः ।।९८॥" प्रशम० ।
[पृ० ७२९] “अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥११॥ सर्वपरिकल्पातीततत्त्वं भेदसंसर्गसमतिक्रमेण समाविष्टं सर्वाभिः शक्तिभिर्विद्याविद्याप्रविभागरूपमप्रविभागं कालभेददर्शनाभ्यासेन मूर्त्तिविभागभावनया च व्यवहारानुपातिभिर्धर्माधर्मैः सर्वास्ववस्थास्वनाश्रितादिनिधनं ब्रह्मेति प्रतिज्ञायते । ___ नहि कार्यकारणात्मकस्य विभक्ताविभक्तस्यैकस्य ब्रह्मणः सर्वप्रवादेष्वपूर्वापरे प्रवृत्ति-निवृत्तिकोटी परिसंख्यायेते । न चास्योर्ध्वमधस्तिर्यग्वा मूर्तपरिवर्तप्रत्यङ्गानां क्वचिदवच्छेदोऽभ्युपगम्यते । तत्तु भिन्नरूपाभिमतानामपि विकाराणां प्रकृत्यन्वयित्वाच्छब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वमित्यभिधीयते । स्थितिप्रवृत्तिनिवृत्तिविभागा हि शब्देन क्रियन्ते । तच्चाक्षरनिमित्तत्वादक्षरमित्युच्यते। प्रत्यक्चैतन्येऽन्तःसन्निवेशितस्य परसम्बोधनार्थो व्यक्तिरभिष्यन्दते। एवं हि आह- सूक्ष्मामर्थेनाप्रविभक्ततत्त्वामेकां वाचमनभिष्यन्दमानाम् । उतान्ये विदुरन्यामिव च एनां नानारूपामात्मनि सन्निविष्टाम् ॥ [ ] इति ॥
विवर्ततेऽर्थभावेन । एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः । स्वप्नविषयप्रतिभासवत् । उक्तं च- “मूर्तिक्रियाविवर्ती अविद्याशक्तिप्रवृत्तिमात्रम्, तौ विद्यात्मनि तत्त्वान्यत्वाभ्यामनाख्येयौ । एतद्धि अविद्याया अविद्यात्वम् [ ] इति ।
प्रक्रिया जगतो यतः । तत एव हि शब्दाख्यादुपसंहृतक्रमाद् ब्रह्मणः सर्वविकारप्रत्यस्तमये संवर्तादनाकृतात्पूर्वं विकारग्रन्थिरूपत्वेनाव्यपदेश्याज्जगदाख्या विकाराः प्रक्रियन्ते ॥११॥"
__ - इति स्वोपज्ञवृत्तिसहिते भर्तृहरिप्रणीते वाक्यपदीये । पृ० ७३०] “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ॥१५॥ आसीदिदं जगत्तमोभूतं तम इव । .......अप्रज्ञातम् । विशेषाणां स्वभावानां विकाराणां प्रकृतावुपलयनादतः प्रत्यक्षेणाज्ञातम् । अनुमानात्तर्हि ज्ञायेत, तदपि नाऽलक्षणम् । लक्षणं लिङ्गं चिह्नम्, तदपि तस्यामवस्थायां प्रलीनमेव, सर्वविकाराणां विशेषात्मना विनष्टत्वात् । अप्रतय॑म् । यद्रूपमासीत्तर्कयितुमपि न तद्रूपतया शक्यम् । सर्वप्रकारमनुमानं निषेधति । न सामान्यतो दृष्टमनुमानमस्ति तद्रूपकावेदकं न विशेषतो दृष्टमतश्चाविज्ञेयम् । नैव तासीदसदेवाजायतेति प्राप्तमेतन्निषेधति प्रसुप्तमिव सर्वतः ।" - इति मनुस्मृतौ० मेघातिथिटीका० ॥
[पृ०७३५ पं०१७] तुलना- “इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्य...कृतवान् स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधत्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ।।६।। तद्यथा- शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणतन्त्रमिति ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org