________________
तृतीयं परिशिष्टम्- टिप्पनानि पुनरेकभव एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम् ।।११५७-११५८॥'- ओघनि० द्रोणा०॥
[पृ०७१९] “उद्धरियसव्वसल्लो आलोइयनिंदिओ गुरुसगासे । होइ अतिरेगलहुओ ओहरियभरो व्व भारवहो ॥११६०॥ वृ० सुगमा, नवरम्- अतिरेकम् अत्यर्थं लघुर्भवति, ओहरितभारो उत्तारितभारः भारवहः गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलघुत्वं भवतीति ॥११६०॥" - ओघनि० द्रोणा० ॥
[पृ० ७२०] “निच्चं संकियभीओ गम्मो सव्वस्स खलियचारित्तो । साहुजणस्स अयओ, मओऽवि पुण दुग्गइं जाइ ॥२२६॥ व्या० नित्यं सदा शकितश्चासौ जल्पान्तरेऽपि मदीयमिदं जल्पत इत्युत्त्रासात्, भीतश्च गच्छतो निःश्वसनादेः शकितभीतः, गम्योऽभिभवनीयः सर्वस्य बालादेरपि, स्खलितचारित्रः साधुजनस्यावमतोऽनभिमत इह लोके, मृतोऽपि पुनर्दुर्गतिं नरकादिकां याति, पुनःशब्दादनन्तसंसारी च संपद्यत इति ॥२२६॥" - इति उपदेशमाला० सिद्धर्षिगणि० ।
[पृ० ७२२] “लहुया ल्हादीजणणं अप्पपरनियत्ति अजवं सोही । दुक्करकरणं विणओ निसल्लत्तं व सोहिगुणा ॥१॥३१७॥ लघो वो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुता । तथा ल्हादनं ल्हादिरौणादिक इप्रत्ययः, प्रल्हत्तिः, तस्य जननमुत्पत्तिादिजननं प्रमोदोत्पाद इति यावत्, तथाहि अतिचारघर्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातिचारघापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्ति त्ति आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वा अन्येऽप्यालोचनाभिमुखा भवन्ति इति अन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतिचारजातं प्रतिसेवितं तत् परस्मै प्रकटयता आत्मन आर्जवं सम्यग्विभावितं भवति, आर्जवं नाम अमायाविता, तथा अतिचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेन अतिचारपङ्कप्रक्षालनतो निर्मलता शोधिः, तथा दुष्करकरणं दुष्करकारिता, तथाहि- यत् प्रतिसेवनं तन्न दुष्करम्, अनादिभवाभ्यस्तत्वात्, यत् पुनरालोचयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात्, तथा विणओ इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति, निस्सल्लत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता, एते शोधिगुणा: आलोचनागुणा आलोचना शोधिरित्यनर्थान्तरत्वात्।" - व्यवहार० मलय० ॥
[पृ० ७२८] "जात्यादिमदोन्मत्तः पिशाचवद् भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च नि:संशयं लभते ॥९८॥ टीका- जात्यादिनाऽष्टप्रकारेण मदेनोन्मत्तो हृत्पूरकभक्षणपित्तोदयाद्व्याकुलीकृतकरणपुरुषवत् पिशाचवद्वा भवति दुःखितश्चेह कश्चिच्छुचिपिशाचकोदृकः जनाकीर्णं देशमृत्सृज्य समुद्रमध्यवर्तिनं द्वीपमनुप्रविष्टः । तत्र चैको वणिग्विभिन्नपोतः प्रथमतरं गतः । तत्र चेक्षुवाटाः प्रभूतास्तद्रसपानात् केवलाद्गुडशकलानीव गुदमुखेन विसृष्टानि । पुरीषपरिणामान्तराणि तानि तथाऽवलोक्य स चोक्तपिशाचकश्चखाद स्वादूनि, तृप्तश्चास्ते प्रतिदिवसम् । दृष्टश्च कालान्तरेण हिण्डमानो वणिक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org