________________
११२
तृतीयं परिशिष्टम्- टिप्पनानि
जनस्योत्पादयन् लोकस्य नूनमेषां धर्मः शास्त्रकारेणैवंविध एव प्रतिपादित इति बुद्ध्युत्पत्तेः, किम् ? धिग्जीवितमिति क्रियाविशेषणम्, धिक्कारार्हप्राणधारणेनेत्यर्थः, जीवति किल प्राणान् धारयतीति ॥४७८॥" - इति उपदेशमाला० सिद्धर्षिगणि० ।
"तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुव्वई देवकिविसं ॥५।२।४६॥ स्तेनाधिकार एवेदमाह- तव त्ति सूत्रम्, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्बिषं करोति किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह- अहम्, अथवा वक्ति-साधव एव क्षपकाः, तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्यरूपः, एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः ॥४६॥
__तत्तो वि से चइत्ताणं, लब्भिही एलमूअयं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥५॥२॥४८॥ अत्रैव दोषान्तरमाह- तत्तो वि त्ति सूत्रम्, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकताम् अजाभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः सकलसंपनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः ॥४८॥" - दशवै० हारि०॥
“लजाइ गारवेण य बहुस्सुयमएण वाऽवि दुच्चरिअं । जे न कहंति गुरूणं न हु ते आराहगा हुंति ॥२१८॥ वृ० तत्र लजया अनुचितानुष्ठानसंवरणात्मिकया गौरवेण च सातर्द्धिरसगौरवात्मकेन, मा भून्ममालोचनाईमाचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, बहुश्रुतमदेन वा बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ?, कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्राजना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकाणो न कथयन्ति नालोचयन्ति, केषाम् ?, गुरूणाम् आलोचनार्हाणामाचार्यादीनाम्, किं तद् ?- दुश्चरितं दुरनुष्ठितम् इति सम्बन्धः, न हु नैव ते अनन्तरमुक्तरूपा आराधयन्ति अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति ॥२१८॥" - उत्तरा० पाईय० अ० ५।१०॥ ___ "न वि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुद्धो ॥११५७॥ जं कुणइ भावसल्लं अनुद्धियं उत्तमट्ठकालंमि । दुल्लभबोहीयत्तं अनंतसंसारियत्तं च ॥११५८॥ वृ० इलश्चालोचयितव्यम्- न तत्करोति दुःखं शस्त्रं नापि विषं नापि दुष्प्रयुक्तः दुःसाधितो वेतालः, यन्त्रं वा दुष्प्रयुक्तं सर्पो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति यत्करोति भावशल्यमनुद्धृतम् उत्तमार्थकाले अनशनकाले, किं करोतीत्यत आहदुर्लभबोधिकत्वम् अनन्तसंसारित्वं चेति, एतन्महादुःखं करोति भावशल्यम् अनुद्धृतम्, शस्त्रादिदुःखानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org