________________
तृतीयं परिशिष्टम्- टिप्पनानि
१११
भंते ! किं सासया, असासया ?। गोयमा ! सिय सासया, सिय असासया । से केणटेणं ? गोयमा ! दव्वट्ठयाए सासया, भावट्ठयाए असासया [ ] इति ॥२३९४॥
एत्थ वि न सव्वनासो समयाइविसेसणं जओऽभिहियं । इहरा न सव्वनासे समयाइविसेसणं जुत्तं ॥२३९५॥ अत्रापि- ‘प्रथमसमयनारका व्यवच्छेदं यास्यन्ति' इति सूत्रे न सर्वनाशः सर्वात्मना नाशो गम्यते । कुतः ? इत्याह- यतो यस्मात् समयादिविशेषणमभिहितम्, ततो न सर्वथा नाशोऽत्र गम्यते, किन्तु प्रथमसमयनारका व्यवच्छेत्स्यन्ति। कोऽर्थः ? प्रथमसमयनारकत्वेन विनक्ष्यन्ति । एवं द्वितीयादिसमयनारका अपि द्वितीयादिसमयनारकत्वेनैव विनक्ष्यन्ति न तु सर्वथा, द्रव्यार्थतया शाश्वतत्वात् । इतरथा सर्वनाशेऽभिप्रेते प्रथमसमयादिविशेषणं न युक्तं स्यादिति ॥२३९५॥" - विशेषाव० मलधारि०॥
[पृ०७०९] “सोउं भणइ सदोसं वक्खाणमिणं ति पावइ जओ भे । मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥२५१५॥ तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन वा जीवप्रदेशैः सह कर्म संबद्धमिति पर्यवसितं विन्ध्यसमीपे श्रुत्वा तथाविधकर्मोदयादभिनिवेशेन विप्रतिपन्नो गोष्ठामाहिलः प्रतिपादयति- ननु सदोषमिदं व्याख्यानम्, यस्मादेवं व्याख्यायमाने भवतां मोक्षाभावः प्राप्नोति, जीवप्रदेशैः सह कर्मणामविभागेन तादात्म्येनावस्थानादिति ॥२५१५।।
नहि कम्मं जीवाओ अवेइ अविभागओ पएसो व्व । तदणवगमादमुक्खो जुत्तमिणं तेण वक्खाणं ॥२५१६॥ 'न हि- नैव कर्म जीवादपैति' इति प्रतिज्ञा । अविभागात्वढ्ययोगोलकन्यायेन जीवेन सह तादात्म्यादित्यर्थः, एष हेतुः । पएसो व्व त्ति जीवप्रदेशराशिवदित्यर्थः, एष दृष्टान्तः । इह यद् येन सहाविभागेन व्यवस्थितं न तत् ततो वियुज्यते, यथा जीवात् तत्प्रदेशनिकुरम्बम्, इष्यते चाविभागो जीव-कर्मणोर्भवद्भिः, इति न तत् तस्माद् वियुज्यते । ततस्तदनपगमात् तस्य कर्मणो जीवादनपगमादवियोगात् सर्वदैव जीवानां सकर्मकत्वाद् मोक्षाभावः। तेन तस्मादिदमिह मदीयं व्याख्यानं कर्तुं युक्तमिति ॥२५१६॥” - विशेषाव० मलधारि०॥
पृ०७१३] “सम्प्रति प्रशस्तभावना अभिधित्सुराह- तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥१३२८॥ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च एवं तुलना भावना पञ्चधा प्रोक्ता जिनकल्पं प्रतिपद्यमानस्येति नियुक्तिगाथासमासार्थः ॥१३२८॥" - बृहत्कल्पटीका।
पृ० ७१८] “अन्यच्चासाविहैव यदनुभवति तदाह- भीओव्विग्ग निलुक्को, पागडपच्छन्नदोससयकारी । अप्पच्चयं जणंतो, जणस्स धीजीवियं जियइ ॥४७८॥ व्या० भीतश्चासौ, कः किं मां भणिष्यतीत्युत्त्रासात्, उद्विग्नश्च क्वचिदपि धृतेरभावादीतोद्विग्नः,स चासौ निलुक्कश्च संघपुरुषादिभयेनात्मगोपनादिति समासः, किमित्येवंविध इत्याह- प्रकटप्रच्छन्नानि जनेन विदिताविदितानि दोषशतानि कर्तुं शीलमस्यासौ प्रकटप्रच्छन्नदोषशतकारी, अत एवाप्रत्ययं धर्मस्योपर्यविश्वासं जनयन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org