________________
११०
तृतीयं परिशिष्टम्- टिप्पनानि एव प्रदेशो जीवो न शेषप्रदेशाः, एतत्सूत्रालापकप्रामाण्यादिति । एवं विप्रतिपन्नोऽसाविति ॥२३३६।।
ततः किम् ? इत्याह- गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो । तो तप्परिणामो च्चिय जीवो कहमंतिमपएसो ? ॥२३३७।। ‘एकोऽन्त्यप्रदेशो जीवः, तद्भावभावित्वाज्जीवत्वस्य' इत्यादि ब्रुवाणस्तिष्यगुप्तो गुरुणा वसुसूरिणाऽभिहितः- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवो न संमतः, ततस्तन्तिमो जीवप्रदेशः कथं केन प्रकारेण जीवः ? न घटत एव सोऽपि जीव इत्यर्थः। कुतः ? तत्परिणाम इति कृत्वा । इदमुक्तं भवतिभवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्यपरिणामत्वात्, प्रथमाद्यन्यप्रदेशवदिति ॥२३३७।।
को जाणइ किं साहू देवो वा तो न वंदणिज्जो त्ति । होजाऽसंजयनमणं होज मुसावायममुगो त्ति ॥२३५९॥ को जानाति- किमयं साधुवेषधारी साधुर्देवो वा ?- नास्त्येवात्र निश्चय इत्यर्थः । न च वक्तव्यम्- साधुरेवायम्, तद्वेष-समाचारदर्शनात्, भवानिव; आर्याषाढदेवेऽपि साधुवेष-समाचारदर्शनेनानैकान्तिकत्वात् । तस्माद् न कोऽपि वन्दनीयः, संशयविषयत्वात् । यदि पुनर्वन्द्यते तदाऽऽर्याषाढदेववन्दन इवासंयतवन्दनं स्यात् । तदमुको ब्रवीति- भाषणे च मृषावादः स्यादिति ॥२३५९॥ - विशेषाव० मलधारि० ।
[पृ०७०६ पं०२३] स्थविरवचनं यदि परे सन्देहः किं सुर इति साधुरिति ? । देवे कथं न शङ्का किं स देवो न देव इति ? ॥२३६०॥ तेन कथितमिति वा मतिर्देवोऽहं रूपदर्शनाच्च। साधुरिति कथं कथिते समानरूपे का शङ्का ? ॥२३६१॥ देवस्य वा किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपीह वन्दध्वे यज्जानन्तोऽपि यतय इति ॥२३६२॥ - इति संस्कृते छाया ॥
[पृ०७०७] “न हि सव्वहा विणासोऽद्धापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥२३९३॥ न हि सर्वथैव वस्तुनो विनाशो युक्तः । क्व सति ? इत्याह - अद्धापर्यायमात्रनाशे । तत्रेहाद्धा नारकादीनामुत्पत्तिप्रथमादिसमयः, स एव पर्यायमानं तस्य नाशोऽपगमस्तस्मिन् सति । कथंभूतस्य वस्तुनः ? इत्याह- स्व-परपर्यायानन्तधर्मकस्य। इदमुक्तं भवति- यस्मिन्नैव समये तद् नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते । अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नम्, ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम्, अनन्तपर्यायात्मकस्य वस्तुन एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दूरविरुद्धत्वात् ? इति ॥२३९३॥ ___ अत्र पराभिप्रायमाशङ्कय परिहरति- अह सुत्ताउ त्ति मई सुत्ते नणु सासयं पि निद्दिटुं। वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए ॥२३९४॥ अथ पूर्वोक्तालापकरूपात् सूत्रात् सूत्रप्रामाण्यात् प्रतिसमयं सर्वथा वस्तूच्छेदः प्रतिपाद्यत इति तव मतिः । ननु यदि सूत्रं तव प्रमाणम्, तर्हि सूत्रे द्रव्यार्थतया शाश्वतमपि वस्त्वन्यत्रोक्तमेव, पर्यायार्थतयैव चाशाश्वतम्; तथा च सूत्रम्- ‘नेरइया णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org