________________
तृतीयं परिशिष्टम्- टिप्पनानि
१०९ विदिया अविवागजादा य ॥४४५॥ अथ का निर्जरा ? पूर्वकृतकर्मसटनं गलनं निर्जरेत्युच्यते सा पुनर्निर्जरा द्विविधा द्विप्रकारा भवेत् । प्रथमा विपाकजाता उदयस्वरूपेण कर्मानुभवनम् । द्वितीया निर्जरा भवेदविपाकजाताऽनुभवमन्तरेणैकहेलया कारणवशात् कर्मविनाशः ॥४४५॥" - मूलाचार० वसुनन्दिटीका ॥
[पृ०७०५] “अथ भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिर्निह्नवो जातस्तं प्रकटयन्नाहसक्खं चिय संथारो न कज्जमाणो कउ त्ति मे जम्हा । बेइ जमाली सव्वं न कज्जमाणं कयं तम्हा ॥२३०८॥ मे जम्ह त्ति यस्माद् मम साक्षात् प्रत्यक्षमेवेदं वृत्तं यदुत- कम्बलास्तरणरूपः संस्तारकः क्रियमाणो न कृतः संस्तीर्यमाणो न संस्तृतः । तस्माजमालिब्रवीति- सर्वमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुच्यते । ततो भगवत्यादिषु यदुक्तम्- चलमाणे चलिए, उईरिजमाणे उईरिए, वेइजमाणे वेइए [१।१।५] इत्यादि, तत् सर्वं मिथ्येत्यभिप्राय इति ॥२३०८।।
तदेवं सामान्येन प्रतिपाद्य प्रस्तुते जमालिसंस्तारके ऽमुं सकलमपि स्थविरोक्तं युक्तिकलापमायोजयन्नाह- जं जत्थ नभोदेसे अत्थुव्वइ जत्थ समयम्मि । तं तत्थ तत्थमत्थुयमत्थुव्वंतं पि तं चेव ॥२३२१॥ आस्तीर्यमाणसंस्तारकस्य यद् यावन्मानं नभोदेशे यत्र यत्र समये अत्थुव्वइ आस्तीर्यते तत् तावन्मानं तस्मिन् नभोदेशे तत्र तत्र समय आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते । इदमुक्तं भवति- सर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति 'क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिर्मन्यते । एतच्चायुक्तम्, भगवद्वचनाभिप्रायापरिज्ञानात् । सर्वनयात्मकं हि भगवद्वचनम् । ततश्च ‘क्रियमाणमकृतम्' इत्यपि भगवान् कथञ्चिद् व्यवहारनयमतेन मन्यत एव, परं चलमाणे चलिए, उईरिजमाणे उईरिए [भगवती० १।१।५] इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि । तन्मतेन च क्रियमाणं संस्तृतम्, इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते- प्रथमसमयादेव घटः कर्तुं नारब्धः, किन्तु मृदानयन-मर्दनादीनि प्रतिसमयं परापरकार्याण्यारभ्यन्ते, तेषां च मध्ये यद् यत्र समये प्रारभ्यते तत् तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकालयोरेकत्वात्, अन्यथा पूर्वोक्तदोषप्रसङ्गात् । ततः क्रियमाणं कृतमेव भवति । एवं प्रस्तुतः संस्तारकोऽपि नाद्यसमयात् सर्वोऽपि संस्तरीतुमारभ्यते, किन्त्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषां च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते, स तत्रैवास्तीर्यते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति संस्तीर्यमाणं संस्तीर्णमेव भवतीति ॥२३२१।।" - विशेषाव० मलधारि०॥
[पृ०७०६] “एगादओ पएसा नो जीवो नो पएसहीणो वि । जं तो स जेण पुण्णो स एव जीवो पएसो त्ति ॥२३३६॥ यद् यस्मादेकादयः प्रदेशास्तावज्जीवो न भवति, ‘एगे भंते! जीवपएसे' [ ] इत्याद्यालापके निषिद्धत्वात्; एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रैवालापके निवारितत्वात् । ततस्तस्माद् येन केनापि चरमप्रदेशेन स जीवः परिपूर्णः क्रियते स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org