________________
१०८
तृतीयं परिशिष्टम्- टिप्पनानि योगः । इह च सत्कारः स्तवनवन्दनादिः १, अभ्युत्थानं विनयाहस्य दर्शनादेवाऽऽसनत्यजनम् २, सन्मानता वस्त्र-पात्रादिभिः पूजनम् ३, आसनाभिग्रहः पुनस्तिष्ठतः आदरेण आसनानयनपूर्वकम् 'उपविशतात्र' इति भणनम् ४, आसनानुप्रदानं तु आसनस्य स्थानात्स्थानान्तरसञ्चारणं ५, कृतिकर्म द्वादशावर्तवन्दनकदानम् ६, अञ्जलिप्रग्रहः दर्शनाधिकदर्शने हस्ताञ्जलियोजनमिति ७ ॥
इन्तस्याऽऽगच्छतोऽनुगमनं सन्मुखगमनं कर्त्तव्यमिति शेषः ८, स्थितस्य दर्शनाधिकस्य पर्युपासना विशेषेण सेवा ९ गच्छतः सम्यक्त्व धारिणोऽनुव्रजनं पश्चाद्गमनमित्यर्थः क्रियाकरणरूपोऽयं दर्शने शुश्रूषाविनयः उचितः ॥ __ अनाशातनाविनयस्तु अनुचितक्रियानिवृत्तिरूपः पश्चदशविधः, तत्र गाथाद्वयम्- तित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १०, मणनाणाईण १५ य तहेव ॥ [ ] व्या० तीर्थकर १ धर्माचार्य ३ वाचक ४ स्थविर ५ कुल ६ गण७ सङ्घाः ८ प्रसिद्धाः, साम्भोगिका एकसामाचारिका: ९, क्रिया आस्तिकता १०, ज्ञानानि मतिज्ञानादीनि पञ्च, एवं पञ्चदश स्थानानि तीर्थकराणामनाशातनायां तीर्थकरप्रणीतधर्मस्यानाशातनायां वर्तितव्यमिति, एवं सर्वत्र द्रष्टव्यमिति ॥
तेषां किं कर्त्तव्यमित्याह- कायव्वा पुण भत्ती, बहुमाणो तह य वण्णवाओ अ । अरिहंतमाइआणं, केवलनाणावसाणाणं ॥ [ ] व्या० कर्त्तव्या पुनर्भक्तिः, बहुमानो देयः, तथा वर्णवादः यशोऽभिधानम्, केषामित्याह- अरिहंतमाइआणं ति अर्हन् आदिर्येषां तेषाम्, कथम्भूतानाम् ? केवलज्ञानावसानानाम्, अर्हद्धर्माचार्यवाचकस्थविर कुल-गण-सङ्घ-मतिज्ञान[श्रुत]ज्ञाना-ऽवधिज्ञान-मनःपर्याय[ज्ञान]-केवलज्ञानानाम्, तीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मस्यानाशातनायां वर्तितव्यमिति, एवं सर्वत्र द्रष्टव्यमिति ॥ ___ इत्युक्तोऽनाशातना विनयः पञ्चदशप्रकारः, अथ चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः- सामाइआदि चरणस्स, सद्दहणया १ तहेव काएणं। संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ [ ] व्या० सामायिकादि, सामायिकमादौ यस्य तत्, आदिशब्दाच्छेदोपस्थापन-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपरिग्रहः । तद्गुणसंविज्ञानो बहुव्रीहिः । सामायिकादि च तच्चरणं च सामायिकादिचरणम्, तस्य श्रद्धानं तथा कायेन स्पर्शनं शरीरेण करणम्, अथ भव्यसत्त्वानां भव्यप्राणिनां पुरतोऽग्रतः प्ररूपणं सभाप्रबन्धेन विस्तरव्याख्यानमिति॥
मनोवाक्कायविनयमाह- मणवयकाइअविणओ, आयरिआईणं च सव्वकालं पि । अकुसलाण निरोहो, कुसलाणमुदीरणं तह य ॥ [ ] व्या० मनोवचनकायविनय आचार्यादीनां सर्वकालम् अकुशलानामशुभानां तेषां निरोधः, कुशलानामुदीरणमिति ॥" - इति गाथाविवरणे ॥
[पृ०७०३] “पुव्वकदकम्मसडणं तु णिजरा सा पुणो हवे दुविहा । पढमा विवागजादा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org