SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्- टिप्पनानि १०७ तुप्पतरयं ति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्तं द्रव्योत्कृष्टम्, इदानी क्षेत्रकालोत्कृष्टप्रतिपादनायाहजत्थ व जं अच्चियं दोसु द्वयोरिति क्षेत्रकालयोर्यद्वस्तु यत्र पूजितं तत्तत्र गृह्यते, एतदुक्तं भवतियद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते, तच्च ग्राह्यम्, तथा यद्वस्तु यस्मिन् काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते, भावोत्कृष्टं पुनर्नियुक्तिकारेणैव व्याख्यातम् ॥९४६।। सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमायो । दानवतिसद्धवुड्डी बुद्धिबलवद्धणं चेव ॥९४३॥ वृ० आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थों सुखेनैव चिन्तयति, अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यम्, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति, सेहस्य चाचार्यं प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति, यदुत न कश्चिदत्र गुरुर्नापि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानपतेश्च श्रद्धावृद्धिः कृता भवति, तथा बुद्धेर्बलस्य चाचार्यसत्कस्य वर्धनं भवति । तत्र च महती निर्जरा भवति ॥९४३॥" - ओघनि० द्रोणा० ॥ [पृ०६९४ पं०१०] “आरंभो उद्दवओ, परितावकारो भवे समारंभो । संरंभो संकप्पो, सुद्धनयाणं तु सव्वेसिं ॥ व्या० संयमः पृथिव्यादिविषयेभ्यः संघट्ट-परितापो-पद्रवणेभ्य उपरमः, असंयमस्तु अनुपरमः । आरम्भादयोऽसंयमभेदाः । तल्लक्षणमिदं प्रागभिहतम्- आरम्भ उपद्रव: जीवानां य उपद्रवः स आरम्भः, परितापकरः समारम्भः जीवानां परितापो यः स समारम्भः, संरम्भः संकल्पः, जीवानां संकल्पः संरम्भ उच्यते शुद्धनयानां सर्वेषां मतेनेति ॥" - इति गाथाविवरणे ॥ (पृ०७०० पं०३] “अथ ज्ञानविनयं वक्ति- भत्ती तह बहुमाणो तद्दिद्रुत्थाण सम्मभावणया। विधिगहणब्भासो वि अ एसो विणओ जिणाभिहिओ ॥ व्या० विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तः, तद्यथा- ज्ञानमाभिनिबोधिकादि पञ्चधा, तदेव विनयः, ज्ञानस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः, तदेवाह- भक्तिर्ज्ञानस्य १, तथा बहुमान आदराधिक्यता २, तद्दृष्टार्थानां ज्ञानदृष्टार्थानां सम्यग् भावना ३, विधिग्रहणं विधिना शिक्षणम् ४, अभ्यासः वारंवारमभ्यसनम् ५ एषोऽयं विनयः पञ्चधा जिनाभिहितो जिनैरुक्त इति । पूर्वं पञ्चधा ज्ञानविनय उक्तः, अथ दर्शनविनयं द्विधा दर्शयति- सुस्सूसणा अणासायणा य विणओ अ दंसणे दुविहो । दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ ॥ दर्शनं सम्यक्त्वम्, तदेव विनयो दर्शनस्य वा, तदव्यतिरेकाद् दर्शनगुणाधिकानां शुश्रूषणा-ऽनाशातनारूपो विनयः दर्शनविषयः । तदेवाह- शुश्रूषा, दंसणे दर्शनविषये द्विविधो विनयः, अपरोऽनाशातनाविषयः । तत्र शुश्रूषणाविषयो दर्शनगुणाधिकेषु सम्यक्त्वधारिषु प्राणिषु क्रियते । स च दशधा___ सक्कार१ब्भुट्ठाणंरसम्माणा३सणअभिग्गहो४ तहय । आसणमणुप्पयाणं५ कीकम्मं ६ अंजलिगहो य ७ ॥ इंतस्सऽणुगच्छणया ८ ठिअस्स तह पजुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ एष दशधा शुश्रूषणाविनय इति द्वितीयगाथान्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy