SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १०६ तृतीयं परिशिष्टम्- टिप्पनानि नुभवकालो भवति । यदिवा, यथा तुल्येऽपि शास्त्रेऽध्येतृणां मतिर्ग्रहणबुद्धिः, मेधा पुनरिहावधारणास्वरूपा गृह्यते, तद्भेदात् त्रिविधो ग्रहणस्य पठनस्य कालो भिन्नोऽनेकरूपो विलोक्यते, एवमायुषोऽपि परिणामविशेषात् तुल्यस्थितिकस्याप्यनेकरूपोऽनुभवनकाल इति । पथि-शास्त्रदृष्टान्तयोः प्रकृतयोजनामाह- तह तुल्लम्मि वीत्यादि गतार्थेव, नवरं परिणामाइकिरियाविसेसाउ त्ति परिणामोऽध्यवसानम्, आदिशब्दाद् बाह्या दण्ड-कशा-शस्त्रादयो गृह्यन्ते, क्रिया चारित्रलक्षणा, परिणामादयश्च क्रिया च परिणामादिक्रियास्तद्विशेषात् तद्भेदाद् बहुभिस्तुल्यस्थितिके बद्धेऽपि कर्मणि भिन्न एवानुभवनकाल इति । यथा दीर्घा प्रसारिता रज्जुरेकस्मात् पक्षात् क्रमेण ज्वलन्ती प्रभूतेनैव कालेन दह्यते, पुञ्जीकृता तु पिण्डीकृता तु ज्वलन्ती क्षिप्रं शीघ्रमेव भस्मीभवति, एवं कर्माप्यायुष्कादिकं दीर्घकालस्थितिकं प्रतिसमयं क्रमेण वेद्यमानं चिरकालेन वेद्यते, अपवर्त्य पुनर्वेद्यमानमल्पेनैव कालेन वेद्यत इति । यथा वा जलार्द्रः पिण्डीभूतः पटश्चिरकालेन शुष्यति, विततः प्रसारितः पुनरल्पेनैव कालेन शुष्यति, एवं कर्मापि, इत्युपनयस्तथैव ॥२०५८-२०६१॥" - विशेषाव० मलधारि०॥ [पृ० ६८७ पं०१७] “एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं । भयवं च वासुपुजो छहि पुरिससएहि निक्खंतो ॥२२४॥ व्या० एको भगवान् वीरः चरमतीर्थकरः प्रव्रजितः, तथा पार्यो मल्लिश्च त्रिभिस्त्रिभिः सह, तथा भगवांश्च वासुपूज्यः षड्भिः पुरुषशतैः सह निष्क्रान्तः प्रव्रजितः ॥२२४॥” - आव० हारि० । पृ० ६९०] “किं थ तयं पम्हुटुं जं थ तया भो जयंतपवरम्मि । वुत्था समयनिबद्धं देवा ! तं संभरह जातिं ॥१८॥ टीका- किं थ तयं गाहा किमिति प्रश्ने, थ इति वाक्यालङ्कारे, तकत् तत् पम्हुटुं ति विस्मृतं जं ति यत् थ इति वाक्यालङ्कारे तदा तस्मिन् काले भो इत्यामन्त्रणे जयंतप्रवरे जयन्ताभिधाने प्रवरेऽनुत्तरविमाने वुत्थ त्ति उषिता निवासं कृतवन्तः समयनिबद्धं मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समयनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवा: अनुत्तरसुराः सन्तः, तं ति त एव तां वा देवसम्बन्धिनी स्मरत जाति जन्म यूयमिति ॥१८॥" - इति ज्ञाता० अभयदेव० टीका० । [पृ०६९३] “आयरियगिलाणाण मइला मइला पुणो वि धोवंति । मा हु गुरूण अवन्नो लोगम्मि अजीरणं इयरे ॥५६८॥ वृ० सुगमा ॥ नवरम् अजीरणं इयरे त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि, यदि न प्रक्षाल्यन्ते ततोऽजीर्णं भवति ॥५६८।। इदानीं भाष्यकृद् व्याख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाह- कलमोतणो उ पयसा उक्कोसो हाणि कोद्दवुब्भज्जी । तत्थ वि मिउ तुप्पतरयं जत्थ व जं अच्चियं दोसु ॥९४६।। वृ० कलमशाल्योदनः पयसा सह द्रव्यमुत्कृष्टं ग्राह्यम्, तदलाभे हान्या तावत् गृह्यते यावत् कोद्दवोभज्झी कोद्दवजाउलयम्, तत्राप्ययं विशेषः क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy