________________
१०५
तृतीयं परिशिष्टम्- टिप्पनानि भुज्यते वेद्यत एव, इत्येष तावद् नियमः; अनुभागतस्तु- स्वानुभवमाश्रित्येत्यर्थः, भजनीयं विकल्पनीयम्अनुभागः कोऽपि वेद्यते, कोऽपि पुनरध्यवसायविशेषेण हतत्वाद् न वेद्यत इत्यर्थः । तदुक्तमागमेतत्थ णं जं तं अणुभागकम्मं तं अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ; तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ [ ] इति । अतः प्रसन्नचन्द्रादिभिस्तस्य नरकयोग्यकर्मणः प्रदेशा एव नीरसा इह वेदिताः, न त्वनुभागः, तस्य शुभाध्यवसायेन हतत्वात् । अत एव न तेषां नरकसम्भविदुःखोदयः, कर्मणां विपाकानुभव एव सुख-दुःखयोर्वेदनात् । येनैवम्, तेन बद्धस्य कर्मणः सर्वेषामपि प्रदेशानामवश्यं वेदनात् के किल तस्य कर्मोपक्रमकर्तुः कृतनाशादयो दोषाः ? न केचिदित्यर्थः । ___ आह- नन्वेवमप्यनुभागो यथा बद्धस्तथैव प्रसन्नचन्द्रादिभिर्न वेदित इति कथं न कृतनाशः ?। अस्त्वेवं कृतनाशः, न नः काचिद् बाधा, यदि ह्यध्यवसायविशेषेणोपहतत्वाद् नश्यति रसः, तदा किमनिष्टम् ?। सर्वस्यापि ह्यष्टप्रकारकर्मणो मूलोच्छेदाय यतन्त एव साधव इत्यभीष्ट एवेत्थं तेषां कृतनाशः । यदा बहुरसं बहुस्थितिकं च सत् कर्माल्परसमल्पस्थितिकं च कृत्वा वेदयति, तदा तस्याल्परसस्याल्पस्थितिकस्य च कर्मणः पूर्वमकृतस्यागमः, ततश्च मोक्षेऽप्यनाश्वासः, सिद्धानामप्यकृतकर्मानुगमेन पुनरावृत्तिप्रसङ्गात्, इति चेत् । तदयुक्तम्, यदि ह्यल्परसत्वमल्पस्थितिकत्वं च कर्मणोऽत्र निर्हेतुकं स्यात् तदा स्यादेवम्, तच्च नास्ति, अल्परसत्वस्याध्यवसायविशेषकृतत्वेनाकृताभ्यागमत्वायोगात्, अल्पस्थितिकत्वमप्यायुष्कादीनां न निर्हेतुकमेव जायते, अध्यवसाननिमित्तादिहेतूनां दर्शितत्वात्, अतस्तस्यापि कथमकृतागमत्वम् ?। अत एव न सिद्धानां कर्मसमागमः, तदागमहेतूनां तेष्वभावात्, इत्यलं प्रसङ्गेन, भाष्यकारेणाप्यस्यार्थस्य प्रपञ्चयिष्यमाणत्वादिति ॥२०४९।।
अथ कर्मण: सोपक्रमत्वसिद्धावुपपत्त्यन्तराण्याह- किंचिदकाले वि फलं पाइजइ पच्चए य कालेणं । तह कम्मं पाइजइ कालेण विपच्चए वण्णं ॥२०५८॥ भिण्णो जहेह कालो तुल्ले वि पहम्मि गइविसेसाओ । सत्थे व गहणकालो मइ-मेहाभेयओ भिन्नो ॥२०५९॥ तह तुल्लम्मि वि कम्मे परिणामाइकिरियाविसेसाओ । भिण्णोऽणुभवणकालो जेट्ठो मज्झो जहन्नो य ॥२०६०॥ जह वा दीहा रजू डज्झइ कालेण पुंजिया खिप्पं । वियओ पडो व सुस्सइ पिंडीभूओ य कालेणं ॥२०६१॥ अथवा, यथा किञ्चिदाम्र-राजादनादिफलं यावता कालेन वृक्षस्थं क्रमेण पच्यते तदपेक्षयाऽर्वाक्कालेऽपि गर्ताप्रक्षेप-पलालस्थगनाद्युपायेन पाच्यते, अन्यत्तु वृक्षस्थमेवोपायाभावतः क्रमशः स्वपाककालेन पच्यते, तथा कर्माप्यायुष्कादिकं किमप्यध्यवसानादिहेतुभिर्बन्धकालनिर्वर्तितवर्षशतादिरूपस्थितिकालापेक्षयाऽकालेनाप्यन्तर्मुहूर्तादिना पाच्यते वेद्यते, अनुभूय पर्यन्तं नीयत इति तात्पर्यम्, अन्यत्तु बन्धकालनिर्वर्तितवर्षशतादिलक्षणस्थितिकालेनैव संपूर्णेन विपच्यते अनुभूयत इति । अथवा, यथेह तुल्येऽपि त्रियोजनादिके पथि त्रयाणां पुरुषाणां गच्छतां प्रहरैक-द्वि-त्र्यादिलक्षणो गतिविशेषाद् भिन्नो गतिकालो दृश्यते, एवं कर्मणस्तुल्यस्थितिकस्यापि तीव्र-मन्द-मध्यमाध्यवसायविशेषाज्जघन्य-मध्यमो-त्कृष्टलक्षणस्त्रिविधोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org