SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ १०४ तृतीयं परिशिष्टम्- टिप्पनानि “सम्प्रति प्रसङ्गतश्चक्रादीनां रत्नानां प्रमाणमाह- चक्कं छत्तं दंडं, तिन्नि वि एयाई वाममित्ताई। चम्मं दुहत्थदीहं, बत्तीसं अंगुलाई असि ॥३०१॥ व्या० चक्रं छत्रं दण्डमित्येतानि त्रीण्यपि रत्नानि ‘वाम मात्राणि, 'वाम' नाम प्रसारितोभयबाहोः पुरुषस्योभयकरामुल्यपान्तरालम्। चर्मरत्नं द्विहस्तदैर्घ्यम्, द्वात्रिंशदङ्गुलान्यसिः खड्गरत्नम् ॥३०१॥ चउरंगुलो मणी पुण, तस्सद्धं चेव होइ वित्थिण्णो। चउरंगुलप्पमाणा, सुवण्णवरकागिणी नेया ॥३०२॥ व्या० दैर्घ्यमधिकृत्य मणिः पुनश्चतुरङ्गुलप्रमाणः, तस्यार्धं दीर्घस्या) द्वे अङ्गुले इत्यर्थः, विस्तीर्णो विस्तृतः । तथा चतुरङ्गुलप्रमाणा सुवर्णवरकाकिनी जात्यसुवर्णमयी काकिनी, काकिनी नाम रत्नं ज्ञेया । इहाङ्गुलं प्रमाणाङ्गुलमवगन्तव्यम् । सर्वचक्रवर्तिनामपि काकिन्यादिरत्नानां तुल्यप्रमाणत्वात् ॥३०२॥" - बृहत्संग्रहणी० मलय० । [पृ०६८६] “अथ प्रेरकः आह- कम्मोवक्कामिज्जइ अपत्तकालं पि जड़ तओ पत्ता । अकयागम-कयनासा मोक्खाणासासया दोसा ॥२०४७।। ननु यद्यप्राप्तकालमपि बहुकालवेद्यं कर्मेत्थमुपक्रम्यते- इदानीमपि क्षिप्रमेव वेद्यते, ततस्तकृतागम-कृतनाशौ, मोक्षानाश्वासता चेत्येते दोषाः प्राप्ताः तथाहि- यदिदानीमेवोपक्रमात् कृताल्पस्थित्यादिरूपं कर्म वेद्यते तत् पूर्वमकृतमेवागतम्, इत्याकृताभ्यागमः । यत् तु पूर्वं दीर्घस्थित्यादिरूपतया कृतं बद्धं तस्यापर्वतनाकरणोपक्रमेण नाशितत्वात् कृतनाशः । ततो मोक्षेऽप्येवमनाश्वासः, सिद्धानामप्येवमकृतकर्माभ्यागमेन प्रतिपातप्रसङ्गादिति ॥२०४७।। __ अत्रोत्तरमाह- न हि दीहकालियस्स विनासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥२०४८॥ न कृतनाशादयो दोषाः' इति प्रकरणाद् गम्यते । कुतः? इत्याह- न यस्मात् तस्यायुष्कादेः कर्मणो दीर्घकालिकस्यापि दीर्घस्थित्यादिरूपतया बद्धस्याप्युपक्रमेण नाशः क्रियते । कुतः ? इत्याह- क्षिप्रं शीघ्रमेव सर्वस्यापि तस्याध्यवसायवशादनुभूतेर्वेदनात् । यदि हि तद् बहुकालवेद्यं कर्मावेदितमेव नश्येत्, यच्चाल्पस्थित्यादिविशिष्टं वेद्यते तत् ततोऽन्यदेव भवेत्, तदा कृतनाशा-ऽकृताभ्यागमौ भवेताम्; यदा तु तदेव दीर्घकालवेद्यमध्यवसायविशेषादुपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा कथं कृतनाशादिदोषः। यथा हि बहुकालभोगयोग्यस्याहारस्य धान्यमूढकदशकादेरग्निरोगिणो भस्मकवातव्याधिमतो द्रुतं स्वल्पकालेनैव भोगो भवति, न च तत्र कृतनाशः, नाप्यकृताभ्यागम इति; एवमिहापि भावनीयमिति। अत्राह- ननु यद् बद्धं तद्यदि स्वल्पकालेन सर्वमपि वेद्यते, तर्हि प्रसन्नचन्द्रादिभिः सप्तमनरकपृथ्वीयोग्यमसातवेदनीयादिकं कर्म बद्धं श्रूयते, तद्यदि सर्वमपि तैर्वेदितम्, तर्हि सप्तमनरकपृथ्वीसम्भविदुःखोदयप्रसङ्गः, अथ न सर्वमपि वेदितम्, तर्हि कथं न कृतनाशादिदोषः ?। सत्यमुक्तम्, किन्तु प्रदेशापेक्षयैव तस्य सर्वस्यापि शीघ्रमनुभवनमुच्यते, अनुभागवेदनं तु न भवत्यपीति ॥२०४८॥ एतदेवाह- सव्वं च पएसतया भुजइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥२०४९॥ सर्वमष्टप्रकारमपि कर्म सोत्तरभेदं प्रदेशतया प्रदेशानुभवद्वारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy