________________
१०३
तृतीयं परिशिष्टम्- टिप्पनानि पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोष: अतीतादिकालव्यत्ययः, यथा रामो वनं प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः अस्थानविच्छेदः तदकरणं वा २२, छवि: अलङ्कारविशेषस्तेन शून्यमिति २३, समयविरुद्धं च स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्यासत् कारणे कार्यम्, सद् वैशेषिकस्येत्यादि २४, वचनमानं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, अर्थापत्तिदोषः यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्यः' इति अर्थादब्राह्मणघातापत्तिः २६, असमासदोष: समासव्यत्ययः यत्र वा समासविधौ सत्यसमासवचनम्, यथा राजपुरुषोऽयमित्यत्र तत्पुरुष समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणम्, यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि २७, उपमादोष: हीनाधिकोपमानाभिधानं यथा मेरुः सर्षपोपमः सर्षपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि २८, रूपकदोष: स्वरूपावयवव्यत्ययः, यथा पर्वतरूंपावयवानां पर्वतेनानभिधानम्, समुद्रावयवानां चाभिधानमित्यादि २९, अनिर्देशदोषः यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानम्, ३०, पदार्थदोष: यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाऽऽश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, सन्धिदोष: विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्च इति वचनात्तच्छब्दनिर्देशो गम्यते ।" - आव० हारि० ।
[पृ०६८४] “पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ ॥१६८॥ गमनिका- प्रथमद्वितीययोः कुलकरयोः प्रथमा दण्डनीतिः हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं भवति- स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः सप्तमस्य तृतीयैव अभिनवा धिक्काराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः ॥१६८।।
इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह- परिभासणा उ पढमा मंडलिबंधम्मि होइ बीया उ । चारग-छविछेआई भरहस्स चउव्विहा नीई ॥३॥ गमनिका- यदुक्तं ‘शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयम्- परिभाषणा तु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानम्, तथा मण्डलीबन्धः नास्मात्प्रदेशाद् गन्तव्यम्, चारको बन्धनगृहम्, छविच्छेदः हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति- किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥३॥” - आव० हारि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org