Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 464
________________ तृतीयं परिशिष्टम्- टिप्पनानि १२३ [पृ०७८५ पं०१२] 'श्रूयते च वज्रान्तं गणितमिति ।' गणितग्रन्थेषु वज्रशब्दो नोपलभ्यते, अतोऽत्र टीकाकृतां वज्रशब्देन किमभिप्रेतमिति न ज्ञायते ।' [पृ०८०३] ‘अथैतद्विवरणायाह- सच्चित्तं जमचित्तं साहूणट्ठाए कीरए जं च । अचित्तमेव पच्चति आहाकम्मं तयं भणियं ॥१३/७॥ व्या० सचित्तं विद्यमानचैतन्यं सत् फलबीजादि । यदचित्तमचेतनम् । साधूनामर्थाय हेतवे । क्रियते विधीयते । तथा यत् । चशब्दो लक्षणान्तरसमुच्चयार्थः। अचित्तमेवाचेतनमपि सत्तण्डुलादि । पच्यते राध्यते । साधूनामर्थायेति प्रकृतम्। आधाकर्मोक्तनिर्वचनम् । तकत् तत् । भणितमुक्तं जिनादिभिः । यद्यपि सचित्तस्य पृथिव्यादेरचित्तीकरणेन यत् क्रियते गृह-वस्त्रादि, तदपि आधाकर्मोच्यते, तथापीह तन्नोक्तं पिण्डस्यैवाधिकृतत्वात् । इति गाथार्थः ॥१३/७|| उद्देसिय साहुमाई ओमच्चए भिक्खवियरणं जं च । उव्वरीयं मीसेउं तविउ उद्देसियं तं तु ॥१३/८॥ व्या० उद्दिश्य वचनेनोच्चार्य । साध्वादीन् निर्ग्रन्थशाक्यादीन् । अवमात्यये दुर्भिक्षापगमे। उपलक्षणमात्रमेतत्, तेन कालान्तरेऽपि । भिक्षावितरणं प्राभृतिकादानं क्रियते । यत् । तदौदेशिकमिति संबन्धः । इदं पुनरुद्देशमात्रविशेषितत्वेनोद्दिष्टौद्देशिकमुच्यते। इह च यद्यपि भिक्षावितरणमौद्देशिकमित्युक्तम्, तथापि भिक्षातद्वितरणयोरभेदात् भिक्षाप्यौद्देशिकमुच्यते । एवमुत्तरभेदद्वयेऽपीति । उद्देशने च गृहस्थस्येयं प्रक्रिया- जीयामु किह वि ओमे निययं भिक्खा वि ता कइवि देमो । हंदि हु नत्थि अदिन्नं भुंज(भुज)इ अकयं न य फलेइ ॥१॥ [ ] जीयामो त्ति जीविताः स्मः । निययं ति नित्यम् । कइ त्ति पञ्चषाः। सा उ अविसेसिए च्चिय नियंमि भत्तंमि तंडुले बुहइ । पासंडीण गिहीण व जो एही तस्स भिक्खट्ठा ॥१॥ [ ] सा उ त्ति गृहस्थिका। अविसेसिए च्चिय त्ति एते स्वस्मै एते चार्थिभ्य इत्येवमविशिष्येति। एतावतैव चास्य मिश्राद्भेदः । इह च विवक्षितभिक्षासु दत्तासूद्धृतासु वा शेषं कल्पत इति । एतच्च पिण्डनियुक्त्याम् ओघौद्देशिकमुक्तम् । उद्दिष्टौद्देशिकं पुनरेवम्- महईए संखडीए उव्वरियं कूरवञ्जणाईयं । पउरं दद्दूण गिही भणइ इमं देह पुन्नट्ठा ॥१॥ [ ] एतस्य चाकल्पता साध्वाद्यर्थतया व्यवस्थापिते तत्र जीवघातसंभवात् । न चेदमेवं स्थापनान्तर्भावि ‘साहोहासियखीराइठावणे' त्यादिलक्षणत्वात्तस्या इति । आचार्येण चास्य स्थापनायाश्च न महान्विशेष इति विवक्षया ओघौद्देशिकमुद्दिष्टौद्देशिकतयाऽधीतमिति। तथा यच्चोद्वरितं प्रकरणोपयुक्तावशिष्टमोदनादि मिश्रयित्वा संयोज्य दध्यादिना व्यञ्जनेन तस्यैव वितरणं क्रियते तदौद्देशिकं केवलं पर्यायान्तरेण कृतं सद्दीयत इति कृत्वा कृतौदेशिकमिदमुच्यत इति । तथा यच्चेत्यनुवर्तते। तविउं ति अग्नौ तापयित्वा मोदकचूर्णादिगुडादिना मोदकबन्धनादितो यत्तस्यैव वितरणं क्रियते तदौद्देशिकं केवलम् । 'अचित्तमेव पच्चई' इत्येतल्लक्षणेनाधाकर्मणोद्देशतो युक्तमिति कृत्वा कर्मोद्देशिकमिदमुच्यत इति । एवंभूतं च विशेषं विहाय सामान्येनोपसंहरन्नाह- औद्देशिकं तदिति। तुशब्दः स्वगतभेदोपसंग्रहार्थः । भेदाश्चैवम्- उद्दिष्टौदेशिक-कृतौदेशिक-कर्मोद्देशिकानि प्रत्येक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588