Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 462
________________ तृतीयं परिशिष्टम्- टिप्पनानि १२१ वेदितव्यः, नवरमेतस्य राजधानी मेरोदक्षिणपूर्वस्यामपरस्मिन् जम्बूद्वीपे । तृतीयः सुहस्तिनामा दिग्घस्तिकूटः, स च मन्दरपर्वतस्य दक्षिणपूर्वस्यां शीतोदाया महानद्याः पूर्वतः, तस्याधिपतिः सुहस्तिनामा देवः, सोऽपि पद्मोत्तर इव महर्द्धिकः, अस्यापि राजधानी मेरोर्दक्षिणपूर्वतोऽपरस्मिन् जम्बूद्वीपे । चतुर्थो दिग्घस्तिकूटोऽञ्जनगिरिः, स च मेरोदक्षिणापरस्यां दिशि शीतोदाया महानद्या अपरतः तस्याधिपतिरञ्जननामा देवः, सोऽपि पद्मोत्तरदेव इव महाविभूतिसंपन्नः, तस्य राजधानी मेरोरपरदक्षिणतोऽपरस्मिन् जम्बूद्वीपे । पञ्चमः कुमुदनामा दिग्घस्तिकूटः, सोऽपि मेरोदक्षिणापरस्यां दिशि पश्चिमाभिमुखं गच्छन्त्याः शीतोदाया दक्षिणतः, तस्याधिपतिः कुमुदनामा देवः, सोऽपि पद्मोत्तर इव महर्द्धिकः, राजधानी तस्यापि मेरोदक्षिणापरतोऽपरस्मिन् जम्बूद्वीपे । षष्ठः पलाशनामा दिग्घस्तिकूटः, स च मेरोरुत्तरापरस्यां दिशि पश्चिमाभिमुखं गच्छन्त्याः शीतोदाया उत्तरतः, तस्याधिपतिः पलाशनामा देवः, सोऽपि पद्मोत्तरदेववन्महर्द्धिकः, तस्य राजधानी मेरोरपरोत्तरतोऽपरस्मिन् जम्बूद्वीपे । सप्तमोऽवतंसकनामा दिग्घस्तिकूटः, सोऽपि मन्दरपर्वतस्योत्तरापरदिशि शीताया महानद्या अपरतः, तस्याधिपतिरवतंसकनामा देवः, राजधानी तस्यापि मेरोरुत्तरापरतोऽपरस्मिन् जम्बूद्वीपे । अष्टमो रोचनगिरिनामा दिग्घस्तिकूटः, स च मन्दरपर्वतस्योत्तरपूर्वस्यां दक्षिणाभिमुखं गच्छन्त्याः शीताया महानद्याः पूर्वतः, तस्याधिपतिर्देवो रोचनगिरिनामा, सोऽपि पद्मोत्तरदेव इव महर्द्धिकः, राजधानी तस्य मेरोरुत्तरपूर्वतोऽपरस्मिन् जम्बूद्वीपे ॥३२५-३२६॥"- बृहत्क्षेत्र० मलय०। [पृ०७६०] “अथ कस्मिन्समये को योगः समुद्घातकाले भवतीत्याह- औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥२७६॥ टीका- प्रथमेऽष्टमे च समये औदारिक एव योगो भवति शरीरस्थत्वात् । कपाटोपसंहरणे सप्तमः । मन्थसंहरणे षष्ठः । कपाटकरणे द्वितीयः । एतेषु त्रिष्वपि समयेषु कार्मणव्यतिमिश्र औदारिकयोगो भवति ।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७७।। मन्थान्तरपूरणसमयश्चतुर्थः । मन्थान्तरसंहरणसमयः पञ्चमः । मन्थानकरणसमयस्तृतीयः । समयत्रयेऽप्यस्मिन् कार्मणशरीरयोगः । तत्र च नियमेनैव जीवो भवत्यनाहारकः ॥२७६-२७७॥" - प्रशम० । [पृ०७६२] “सम्प्रत्येषामेव पिशाचादिनिकायानां चिह्नान्याह- चिंधाई कलंब ज्झए सुलसवडे तहय होइ खटुंगे । असोय चंपए वि य नागे तह तुंबरू चेव ॥६१॥ व्या० क्रमेणामूनि पिशाचादीनां चिह्नानि, तद्यथा- पिशाचानां ध्वजे कदम्बः कदम्बवृक्षचिह्नम् । भूतानां सुलसो वनस्पतिविशेषः । यक्षाणां वटवृक्षः । राक्षसानां खट्वाङ्गः । किन्नराणामशोकवृक्षः। किंपुरुषाणां चम्पकतरुः । महोरगाणां नागवृक्षः । गन्धर्वाणां तुम्बरुनामा तरुरिति ॥६१॥"- बृहत्सं० मलय०। [पृ० ७६६] “साम्प्रतं मितं व्याख्यानयति- अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भागे । वाऊपरियारणट्ठा छन्भायं ऊणयं कुज्जा ॥६५०।। इह किल सर्वमुदरं षड्भिर्भागैर्विभज्यते, तत्र चार्ट्स भागत्रयरूपमशनस्य सव्यञ्जनस्य, तत्र शाकादिसहितस्याधारं कुर्यात्, तथा द्वौ भागौ द्रवस्यपानीयस्य, षष्ठं तु भागं वायुप्रविचारणार्थम् ऊनं कुर्यात् ॥६५०॥" - पिण्डनि० क्षमारत्न० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588