Book Title: Agam 03 Ang 03 Sthananga Sutra Part 03
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 450
________________ तृतीयं परिशिष्टम्- टिप्पनानि १०९ विदिया अविवागजादा य ॥४४५॥ अथ का निर्जरा ? पूर्वकृतकर्मसटनं गलनं निर्जरेत्युच्यते सा पुनर्निर्जरा द्विविधा द्विप्रकारा भवेत् । प्रथमा विपाकजाता उदयस्वरूपेण कर्मानुभवनम् । द्वितीया निर्जरा भवेदविपाकजाताऽनुभवमन्तरेणैकहेलया कारणवशात् कर्मविनाशः ॥४४५॥" - मूलाचार० वसुनन्दिटीका ॥ [पृ०७०५] “अथ भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिर्निह्नवो जातस्तं प्रकटयन्नाहसक्खं चिय संथारो न कज्जमाणो कउ त्ति मे जम्हा । बेइ जमाली सव्वं न कज्जमाणं कयं तम्हा ॥२३०८॥ मे जम्ह त्ति यस्माद् मम साक्षात् प्रत्यक्षमेवेदं वृत्तं यदुत- कम्बलास्तरणरूपः संस्तारकः क्रियमाणो न कृतः संस्तीर्यमाणो न संस्तृतः । तस्माजमालिब्रवीति- सर्वमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुच्यते । ततो भगवत्यादिषु यदुक्तम्- चलमाणे चलिए, उईरिजमाणे उईरिए, वेइजमाणे वेइए [१।१।५] इत्यादि, तत् सर्वं मिथ्येत्यभिप्राय इति ॥२३०८।। तदेवं सामान्येन प्रतिपाद्य प्रस्तुते जमालिसंस्तारके ऽमुं सकलमपि स्थविरोक्तं युक्तिकलापमायोजयन्नाह- जं जत्थ नभोदेसे अत्थुव्वइ जत्थ समयम्मि । तं तत्थ तत्थमत्थुयमत्थुव्वंतं पि तं चेव ॥२३२१॥ आस्तीर्यमाणसंस्तारकस्य यद् यावन्मानं नभोदेशे यत्र यत्र समये अत्थुव्वइ आस्तीर्यते तत् तावन्मानं तस्मिन् नभोदेशे तत्र तत्र समय आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते । इदमुक्तं भवति- सर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति 'क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिर्मन्यते । एतच्चायुक्तम्, भगवद्वचनाभिप्रायापरिज्ञानात् । सर्वनयात्मकं हि भगवद्वचनम् । ततश्च ‘क्रियमाणमकृतम्' इत्यपि भगवान् कथञ्चिद् व्यवहारनयमतेन मन्यत एव, परं चलमाणे चलिए, उईरिजमाणे उईरिए [भगवती० १।१।५] इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि । तन्मतेन च क्रियमाणं संस्तृतम्, इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते- प्रथमसमयादेव घटः कर्तुं नारब्धः, किन्तु मृदानयन-मर्दनादीनि प्रतिसमयं परापरकार्याण्यारभ्यन्ते, तेषां च मध्ये यद् यत्र समये प्रारभ्यते तत् तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकालयोरेकत्वात्, अन्यथा पूर्वोक्तदोषप्रसङ्गात् । ततः क्रियमाणं कृतमेव भवति । एवं प्रस्तुतः संस्तारकोऽपि नाद्यसमयात् सर्वोऽपि संस्तरीतुमारभ्यते, किन्त्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषां च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते, स तत्रैवास्तीर्यते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति संस्तीर्यमाणं संस्तीर्णमेव भवतीति ॥२३२१।।" - विशेषाव० मलधारि०॥ [पृ०७०६] “एगादओ पएसा नो जीवो नो पएसहीणो वि । जं तो स जेण पुण्णो स एव जीवो पएसो त्ति ॥२३३६॥ यद् यस्मादेकादयः प्रदेशास्तावज्जीवो न भवति, ‘एगे भंते! जीवपएसे' [ ] इत्याद्यालापके निषिद्धत्वात्; एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रैवालापके निवारितत्वात् । ततस्तस्माद् येन केनापि चरमप्रदेशेन स जीवः परिपूर्णः क्रियते स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588