Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
५
द्रव्यस्तैवात्मा धनसाधनो न धर्मोऽपि सौरम्भतयातिशुद्धः । निःसंगतात्मा त्वतिशुद्धयोगान्मुक्तिश्रियं यच्छति तद्भवेऽपि ॥ ४५ ॥ क्षेत्रर्वैस्तुधनधान्यगवाश्वैर्मेलितैः संनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः स्यात् को गुणो यदि न धर्मनियोगः ॥ ४६ ॥ आरम्भैर्भरितो निमज्जति यतः प्राणी भवाम्भोनिधा
वीहन्ते कुर्नृपादयश्च पुरुषं येन च्छलाद्वाधितुम् । चिन्ताव्याकुलताकृतेश्च हरते यो धर्मकर्मस्मृतिं
विज्ञा भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः ॥ ४७ ॥ क्षेत्रेषु नो वसि यत्सदपि स्वमेतद्यातासि तत् परभवे किमिदं गृहीत्वा ।
तस्यार्जनादिजनिताघचयार्जितात्ते
भावी कथं नरकदुःखभराच्च मोक्षः ॥ ४८ ॥ देहममत्वमोचनाधिकारः ।
पुष्णासि यं देहमधान्यचिन्तयंस्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वन्निति चिन्तययतिं जगन्त्ययं वञ्चयते हि धूर्तराष्ट् ॥ ४९ ॥
१ द्रव्यस्तवः पूजाप्रासादप्रतिमाप्रतिष्ठादिको भावकारणं द्रव्यमिति वचनात् स एव आत्मा स्वरूपं यस्य सः । २ सह आरम्भेण षट्कायाद्युपमर्देन वर्तते यः स तस्य भावस्तत्ता तया । एतावता धनप्रभवः पूजादिधर्मोऽपि किञ्चिदारम्भकलंकितत्वान्निष्कलको न भवति । ३. निर्गतः संगो धनधान्यादिर्नवविधः परिग्रहो यस्मात् स तस्य भावस्तत्ता सैवात्मा स्वरूपं यस्य सः । अत्र अपिशब्दो वैलक्षण्यद्योतको वैलक्षण्यश्चेदम् -- द्रव्यस्तवात्मा धनसाधनो धर्मो भवान्तरे मुक्तिप्रापको भवति । निःसंगतात्मा तु धर्मस्तपः संयमरूपो भवान्तरे तद्भवे वा मुक्तिप्रापको भवति । ४ गृहहट्टप्रभृतीनि । ५ सञ्चितैः । ६ निधानसहितैः । ७ अतिरिक्तः । ८ विशेषलाभः । ९ न यदि इति वा पाठ: । १० षट्कायाद्युपमर्दैर्व्याप्तः । ११ आदिशब्दात् चौरनटविटादयः । १२ परिग्रहवन्तं पुरुषं । पुरुषा इति वा पाठः । १३ येन परिग्रहेण । १४ चिन्ता परिग्रहस्याप्राप्तस्यार्जनोपायपरिचिन्तनं प्राप्तस्य परिरक्षणोपायचिन्तनञ्च तेन व्याकुलता अस्वास्थ्यम् तस्याः कृतेः करणात् । १५ व्याकुलिता इति पाठान्तरम् । १६ जिनभवनबिम्बपुस्तकसाधुसाध्वी श्रावकश्राविकारूपेषु सप्तसु प्रतिष्ठातीर्थयात्रासहितेषु नवसु वा । १७ आदिपदात् क्रयाणकक्रयविक्रयादयः ।
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86