Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ अध्यात्मकल्पद्रुमः । केचित् कषायैः कचैन प्रमादैः कदाग्रहैः कोपि च मत्सराद्यैः । आत्मानमात्मन् कलुषीकरोषि विभेषि धिङ् नो नरकार्दधर्मा ॥ १४५ ॥ धर्मशुद्धयधिकारः । 72 भवेद्भवापायविनाशनाय तमज्ञ धर्म कलुषीकरोषि किम् । प्रमादमानोपर्धिमत्सरोदिभिर्न मिश्रितं द्यौषधमामय पहम् ॥ १४६ ॥ शैथिल्यमात्सर्य कदाग्रहक्रुधोऽनुतापदंभ विधिगौरवाणि च । प्रमादमानौ कुंगुरुः कुसंगतिः श्रार्थिता वा सुकृते मला इमे ॥ १४७ ॥ यथा तवेष्टा स्वगुणप्रशंसा तथा परेषामिति मत्सरोज्झी ! तेषामिमा सन्तनु यलभेतां नेष्टदानादि विनेष्टलाभः ॥ १४८ ॥ जनेषु गृत्सु गुणान् प्रमोद से ततो भवित्री गुणरिक्तता तव । गृह्णत्यु दोषान् परितप्यसे 'चं रे भवन्तु दोषास्त्वयि सुस्थिरास्ततैः॥१४९॥ प्रमोद से स्वस्य यथान्यनिर्मितैः स्तवैस्तथा चेत् प्रतिपन्थिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे तथा रिपूणामपि चेत्ततोऽसि वित् ॥ १५० ॥ स्तवैर्यथा स्वस्य विगर्हणैश्च प्रमोदतापौ भजसे तथा चेत् । इमौ परेषामपि तैश्चतुर्व्वप्युदासतां वासि ततोऽर्थवेदी ॥ १५१ ॥ भवेन्न कोऽपि स्तुतिमात्रतो गुणी ख्यात्या न बह्रचापि हितं परत्र च । तदिच्छुरीर्ष्यादिभिरायतिं ततो मुँधाभिमानग्रहिलो निर्हसि किम् ॥ १५२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ परहसहनादौ । २ क्रियानुष्टानादौ । ३ शास्त्रार्थप्ररूपणादौं । ४ समत्सरायैः इति वा पाठ: । ५ मत्सराद्यैः कदाग्रहैः मिथ्याभिनिवेशाद्यैरसद्व है: । अत्र आद्यपदेन शास्त्रश्रवणादौ मौयादिभिराशातनाकरणेन । ६ धर्मो देशविरतिलक्षणः सर्वविरतिलक्षणः सम्यकत्वलक्षणो दानादिलक्षणो वा न विद्यते यस्य सः । ७ भवः संसारः तत्संबंधिनो येऽपाया जन्मजरामरणलक्षणा उपद्रवास्तेषां विध्वंसाय । ८ माया । ९ आदिपदात् लोभप्रभृतिभिः । १० रोगोत्पादकद्रव्येण सम्पृक्तं रोगापहारि भेषजं । ११ रोगोच्छेदकं । १२ क्रियायां शिथिलता । १३ शास्त्रोक्तमर्यादया प्रवर्तनं विधिस्तदभावोऽविधिः | १४ मयेदं सुकृतं कृतं ततोऽहं महानिति स्वयं चिन्तनं, लोके महत्व प्राप्तये परेषां पुरस्तात् प्रकाशनं वा । १५ सम्यग्ज्ञानदर्शनचारित्ररहितो धर्माचार्य: । १६ परकृतस्व प्रशंसास्पृहालुता । १७ परेषां गुणप्रशंसाम् । १८ सम्यक्प्रकारेण विस्तारय । १९ स्वगुणप्रशंसाम् । २० चेद् इति वा पाठ: । २१ स्तव इति वा पाठः । २२ निरर्थकाहंकारग्रस्तः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86