Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माद्वयं । नित्यं खेलति चात्मसंयमगुणोक्रीडे भजद्भावनाः ॥ १७७ ।। स्वाध्यायमाधित्ससि नो प्रमादैः शुद्धा न गुप्तीः समितीश्च धत्से । तपो द्विधा नार्जसि देहेमोहादल्पेऽपि हेतौ दधंसे कषायान् ॥ १७८ ॥ परीषहान्नो सहसे न चोपसर्गान्न शीलांगधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं मुने कथं यास्यसि वेषमात्रात् ॥ १७९॥ युग्मम् आजीविकाथमिह यद्यतिवेषमेव' धत्से चरित्रममलं न तु कष्टभीरुः । तद्वेत्सि किं न न बिभेति अँगजिघृक्षु मृत्युः कुतोऽपि नरकश्च न वेषमात्रात् ॥ १८० ॥ वेषेण माद्यसि यतेश्चरणं विनात्मन् पूजां च वाञ्छसि जनाद्बहुधोपधिं च । मुग्धप्रेतारणभवे नरकेऽसि गन्ता न्यायं बिभर्षि तदजागलकर्तरीयम् ।। १८१ ॥ जानेऽस्ति संयमतपोभिरमीभिरात्म न्नस्य प्रतिग्रहभरस्य न निष्कयोऽपि । १ प्रकर्षण शान्तं निःसत्ताकीभूतं कलुषं पापकर्म यत्र तत्तथा। २ उद्याने । चाप्तसंयमगुणाक्रीडे इति वा पाठः । ३ शुद्धा निरतिचारा गुप्तीः मनोगुप्त्यादिकाः । ४ ईर्या. समित्यादिकाः । ५ ममेदं शरीरं मा दुर्बलं भवतु इति मौढ्यात् । ६ दधि धारणे इत्यस्य मध्यमपुरुषैकवचनस्य रूपम् । ७ परीषहान् क्षुत्तद्प्रमुखान् । ८ देवमनुध्यतिर्यकृतान् परिभवान् । ९ अष्टादशसहस्रशीलांगरथधारकोऽपि । १० मुक्तिं गमिध्यन् । ११ रजोहरणादिलिंगं । १२ निरतिचारं । १३ उपसर्गपरीषहसहनकष्टभीरुः । * जगजिघत्सुरिति समीचीनतरः पाठः । १४ वस्त्रपात्रलक्षणं । १५ निर्विवेकलोकवं. चनोत्पन्ने नरके दुर्गतिरूपे। १६ अजागलकर्तरीयन्यायः परिशिष्टतो ज्ञेयः। १७ शु. द्धिरहितैः सातिचारैः लोकरंजनार्थ क्रियमाणैः संयमतपोभिः। १८ मनोवाञ्छिताशनपानवस्त्रपात्रपीठफलकवसत्यादिग्रहणरूपस्य । १९ निष्क्रयो भाटकमपि नास्ति कुतस्तन्मूल्यस्य संभावनेतिभावः । अत्र तदेति गम्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86