Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणी टिप्पणीसहितः । वचोऽप्रवृत्तिमात्रेण मौनं के के न बिभ्रते । निरवद्यं वचो येषां वचोगुप्तांस्तु तान् स्तुवे ॥ २३८ ॥ निरवद्यं वचो ब्रूहि सावद्यवचनैर्यतः । प्रयाता नरकं घोरं वसुराजादयो द्रुतम् ॥ २३९ ॥ इहामुत्र च वैराय दुर्वाचो नरकाय च । अग्निदग्धाः प्ररोहन्ति दुर्वग्दग्धा पुनर्न हि ॥ २४० ॥ अत एव जिना दीक्षाकालाद केवलोद्भवम् । अवद्यादिभिया ब्रूयुर्ज्ञानत्र्यभृतोऽपि न ॥ २४१ ॥ कृपया संवृणु स्वांगं कुर्मा ज्ञातनिदर्शनात् । संवृतीसंवृतांगा यत् सुखदुःखान्यवयुः ॥ २४२ ॥ कायस्तम्भान्न के के स्युस्तरुस्तम्भादयो येताः । शिव हेतुक्रियो येषां कायस्तांस्तु स्तुवे यतीन् ॥ २४३ ॥ श्रुतिसंयममात्रेण शब्दान् कान् के " त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४४ ॥ चक्षुःसंयममात्रात् के रूपालोकांस्त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४५ ॥ घ्राणसंयममात्रेण गन्धान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४६ ॥ जिह्वासंयममात्रेण रसान् कान् के त्यजन्ति न । For Private And Personal Use Only ३० १ एकेन्द्रियादयः । २ निष्पापम् । ३ वाग्गुप्तिधरान् । ४ वसुराजादिकथा परिशिष्टतोऽवगन्तव्या । ५ दुर्वाग्दग्धा जना न प्ररोहन्ति सौमनस्यरूपांकुरवन्तो भवन्ति । ६ दीक्षाकालात् व्रतप्रतिपत्तिसमयादारभ्य आकेवलोद्भवम् केवलज्ञानोत्पत्तिसमयं यावत् । ७ आदिपदात् धर्म्यध्यानविघातभिया । ८ मतिश्रुतावधिज्ञानवन्तोऽपि । ९ जीवदयालक्षणहेतुना । १० निरुद्धि । ११ स्वकायं । १२ ज्ञाताधर्म - कथांगोक्तदृष्टान्तात् । १३ संलीनासंलीनगात्राः कूर्माः । १४ प्राप्नुवन्ति । १५ संय मिनः । १६ एकेन्द्रियादयश्चतुरिन्द्रियान्ता अनेडमूकबधिरपञ्चेन्द्रियाश्च । १७ परिहरन्ति । १८ प्रीत्यप्रीतिलक्षणौ । १९ त्रीन्द्रियादयश्चक्षुर्दोषदुष्टपञ्चेन्द्रियाश्च । २० एकेन्द्रियद्वीन्द्रियत्रीन्द्रिया दोषग्रस्ताः पञ्चेन्द्रियाश्च ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86