Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यामकल्पद्रुमाचें
न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रत मतम् ॥ प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत् ॥ अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥ 'दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।
यदि सत्स्वपि जीयेत मूर्च्छया चित्तविप्लवः ॥ महाव्रतभावना:-मनोगुप्त्येषणादानेयांभिः समितिभिः सदा।
दृष्टान्नपानग्रहणेनाहिंसां भावयेत्सुधीः ॥ हांस्यलोभभयक्रोधप्रत्याख्यानै निरन्तरम् । आलोच्य भाषणमपि भावयेत्सूनृतं व्रतम् ॥ आलोच्यावग्रहे याचाऽभीक्ष्णावग्रह्याचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापि तथा नाम्नासनमस्सेयभावना ॥ स्त्रीषण्डपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ।। स्त्रीरम्यांगेक्षणवांगसंस्कारपरिवर्जनात् । प्रेणीतात्यशनत्यागाद्ब्रह्मचर्य तु भावयेत् ॥ स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चसु हीन्द्रियार्थेषु गाढं गाय॑स्य वर्जनम् ॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिश्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥
१. देवतांच्या वैक्रियशरीरसंबंधी जे कामभोग व तिर्यग् मनुष्य यांच्या औदारिक शरीरसंबंधी जे कामभोग. २. एषणासमिति (आहारादि चार वस्तूंसंबंधानें ) आदाननिक्षेप समिति व ईर्यासमिति । ३. स्निग्धमधुरादि अन्नाचा आहार,
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86