Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
अध्यात्मकल्पद्रुमा बन्धान्त विनोः पुण्यपापयोः पृथगुक्तितः । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥
[जीवः] अमूर्तश्चेतनाचिह्नः कर्ता भोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ १० ॥
[अजीवः] धर्माधर्मों नभः कालः पुद्गलश्चेति पश्चधा। अजीवः कथ्यते सम्यग्जिनैस्तत्वार्थदर्शिभिः ॥ ८१ ॥ षड्व्व्याणीति वर्ण्यन्ते समं जीवेन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ॥ ८२ ॥ धर्मः स तात्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीनां पदार्थानां मत्स्यानामुदकं यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षितिः । द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियौ । नित्यावप्रेरको हेतू मूर्तिहीनावुभावपि ॥ ८५ ॥ पुद्गलादिपदार्थानामवगाहैकलक्षणः । लोकाकाशः स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ॥ धर्माधमैकजीवाः स्युरसंख्येयप्रदेशकाः । व्योमानन्तप्रदेशं तु सर्वज्ञैः प्रतिपाद्यते ॥ ८७ ॥ जीवादीनां पदार्थानां परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ॥ ८८ ॥ कालो दिनकरादीनामुदयास्तक्रियात्मकः । औपचारिक एवासौ मुख्यकालस्य सूचकः ॥ ८९ ।। रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ ९० ॥ भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषां षोढा जिनागमे ॥ ९१ ॥
For Private And Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86