Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । त्वमेव दुःखं नरकस्त्वमेव त्वमेव शर्मापि शिवं त्वमेव । त्वमेव कर्माणि मनस्त्वमेव जहीह्यविद्यामवधेहिं चात्मन् ॥ २६६ ॥ निःसंगतामेहि सदा तदात्मन्नर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ममतैव मूलं शुचां, सुखानां समतैव चेति ॥ २६७ ॥ ३९ १२ 13 स्त्रीषु धूलिपु निजे च परे वा सम्पदि प्रसरदोपेदि चात्मन् । तत्त्वमेहि समतां ममतमुग्येन शाश्वतसुखाद्वयमेषि ॥ २६८ ॥ तमेव सेवस्व गुरुं प्रयत्नादधीष्व शास्त्राण्यपि तानि विद्वन् । तदेव तत्त्वं परिभावयात्मन् येभ्यो भवेत्साम्यसुधोपभोगः ॥ २६९ ॥ समग्रसच्छास्त्रमहार्णवेभ्यः समुद्धतः साम्यसुधारसोऽयम् । निपीयतां हे विबुधा लभेध्वमिहपि मुक्तेः सुर्खेवैर्णिकां यत् ॥ २७० ॥ शान्तैरसभावनात्मा मुनिसुन्दरसूरिभिः कृतो ग्रन्थः । । स्पृहया ध्येयः स्वपरहितोऽध्यात्मकल्पतरुरेषः ॥ २७९ ॥ इममिति मतिमानधीत्य चित्ते रमयति यो विरेंमेत्ययं भवाद्राक् । स च नियततो रमेत चस्मिन् सह भववैरिजयश्रियाँ शिवश्रीः ॥ २७२ ॥ इति श्रीशान्तरसभावनात्मस्वरूपोऽध्यात्मकल्पद्रुमो जयध्यंकः श्रीमुनिसुन्दरसूरिभि विरचितः ः समाप्तः ॥ For Private And Personal Use Only लात् । ७ १ दुःखं प्रतिकूलवेद्यं लमेवासि दुःखसाधनोपायप्रेरकत्वात् । २ निरयनाम्नी दुर्गतिस्त्वमेवासि नरकगतिनामकर्मार्जकत्वात् । ३ शर्म मुखमसि सुखसाधनोपायप्रेरकत्वात् । ४ मोक्षोऽसि सकलकर्मराहित्येन जायमानत्वात् । ५ शुभाशुभरूपाणि त्वमेवासि शुभाशुभकर्मार्जकत्वात् । ६ शुभाशुभकर्मबन्धकश्चेतोव्यापारस्त्वमेवासि मनोव्यापारक• अर्थवैपरीत्यलक्षणां । मिथ्याज्ञानं ममायं सुखदो ममायं दुःखद इत्यादिरूपां मिथ्यावासनां वा । ८ यथा सुखं भवति दुःखं च न भवति तथा सावधानो भव । ९ नवविवपरिग्रहे ममताराहित्यम् । १० प्रामुहि । ११ सुखदुःखजनकेषु पदार्थेषु । १२ स्वजने । १३ परजने वैरिणि वा । १४ राज्यादिसमृद्धौ । १५ आगच्छद्विपत्तौ । १६ इष्टानिष्टवस्तुषु ममलत्यजनशीलः | १७ शाश्वतमुखेन मोक्षसुखेन सह अद्वयमैक्यम् । १८ अत्यादरेण श्रूयताम् । १९ मनुष्यभवे स्थिता अपि । २० सौख्यस्य वर्णिकां तत्स्वरूपसूचकस्तदेकदेशस्ताम् । २१ शान्तरसभावनस्वरूपः । २२ मुक्तिकामनया । २३ पुनः पुनरनुभवति । २४ संसारान्निवर्तते । २५ अतः अस्माद्भवविरमणात् । २६ ग्रन्थान ध्ययनानुभवितरि पुंसि । २७ अत्र जयश्रियेत्यनेन ग्रन्थस्यास्य जययंकता दर्शिता ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86