Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
अध्यात्मकल्पद्रुमः । परम्य पीडापरिवर्जनात्ते त्रिधा त्रियोग्यप्यमला सदास्तु । साम्यैकलीनं गतदुर्विकल्पं मनो वचश्चाप्यनघप्रवृत्ति ॥ २६१ ।। मैत्री प्रमोदं करुणां च सम्यक् मध्यस्थतां चानय सात्म्यमात्मन् । सद्भावनास्वाप्तलयं प्रयत्नात् कृताविरामं रमयस्व चेतः ।। २६२ ।। कुर्या न कुत्रापि ममत्वभावं न च प्रभो रत्यरती कषायान् । इहापि सौख्यं लभसऽप्यनीहो ह्यनुत्तमिर्त्यसुखाभमात्मन् ॥ १६३ ॥
इति यतिवरशिक्षां योऽवधार्य व्रतस्थ__ श्चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धि क्लेशराशिं स ती| __विलसति शिवसौख्यानन्त्यसायुज्यमाप्य ॥ २६४ ॥
(ग्रन्थोपसंहारः)
साम्यसर्वस्वाधिकारः। एवं सदाभ्यासवशेन सौत्म्यं नयस्व साम्यं परमार्थवेदिन् । यतः करस्थाः शिवसम्पदस्ते भवन्ति सद्यो भवभीतिभेत्तुः ।। २६५ ॥
१करणकारणानुमतिलक्षणप्रकारत्रयेण । २ मनोवचःकायलक्षणयोगत्रयी। ३ निरवद्यव्यापारम् । मनोवचःशुद्धेरपेक्षया कायशुद्धिः सुखसाध्या इति हेतोरत्र न कथिता । ४ गुरूक्तयुक्त्या शास्त्रोक्तयुक्त्या वा। ५ आत्मना सह एकीभावम् । आनय प्रापय । ६ संप्राप्ततन्मयखभावं यथा स्यात्तथा। स्वात्मलयं इति वा पाठः । ७ निरन्तरं यथा स्यात्तथा। ८ मा विध्याः । ९ शय्योपधिपुस्तकादिवस्तुनि मत्वभावं ममेतिबुद्धिलक्षणां ममताम् । १. हे आत्मन् प्रभो। ११ रतिश्च सुन्दरवस्तुष्वा-सक्तिलक्षणेषु विषयेषु मोहनीयोदयाच्चित्ताभिरतिवी । अरतिश्चासुन्दरवस्तुनि प्रद्वेषलक्षणा अनिष्टविषयेषु मोहनीयोदयाचित्तोद्वेगो वा । १२ मर्त्यलोके । १३ निःस्पृहः। १४ अनुत्तरविमानवासिसुरानुभवयोग्यं सुरसदृशं सौख्यं । ममतादिदोषरहितस्य साधोरिहापि सर्वातिशायि सुखं भवति इति भावः । १५ साधुः । इति अमुना प्रकारेणोक्ताम् । १६ चरणसप्ततिकरणसप्ततिलक्षणान् योगान् संयमव्यापारान् । एकचित्तस्तदेकाग्रमनाः। १७ जन्मजरामरणक्षुत्पिपासापरिभवादिलक्षणानां राशि भवमहाब्धिम् तीर्खा निस्तीर्य । १८ शिवसोख्यस्य मोक्षसुखस्य आनन्त्यमविनाशिता तया सह सायुज्यं साहित्यं । सह युग योगोऽस्येति सयुग तस्य भावः सायुज्यम् । १९ एवं पञ्चदशद्वारोक्तप्रकारेण । २० पुनः पुनः करणलक्षणाभ्यासायत्ततायोगेन । २१ खात्मप्रकृत्या सह एकीभावं नयस्व समताम् । २२ हे तालिकपदार्थज्ञ ।
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86